ऋग्वेदसंहिता, पदपाठ · अध्याय 5.65
॥2॥.
-र्व्_4:4।3-
(र्व्_5,65)
यः । चिकेत । सः । सु-क्रतुः । देव-त्रा । सः । ब्रवीतु । नः । वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः
ता । हि । श्रेष्ठ-वर्चसा । राजाना । दीर्घश्रुत्-तमा । ता । सत्पती इतिसत्-पती । ऋत-वृधा । ऋत-वाना । जने--जने
ता । वाम् । इयानः । अवसे । पूर्वौ । उप । ब्रुवे । सचा । सु-अश्वासः । सु । चेतुना । वाजान् । अभि । प्र । दावने
मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते । मित्रस्य । हि । प्र-तूवर्तः । सु-मतिः । अस्ति । विधतः
वयम् । मित्रस्य । अवसि । स्याम । सप्रथः-तमे । अनेहसः । त्वाऊतयः । सत्रा । वरुण-शेषसः
युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः । मा । मघोनः । पर् इ । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गो--पीथे । नः । उरुष्यतम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0