ऋग्वेदसंहिता, पदपाठ · अध्याय 5.67
॥4॥.
-र्व्_4:4।5-
(र्व्_5,67)
बट् । इत्था । देव । निः-कृतम् । आदित्या । यजतम् । बृहत् । वरुण । मित्र । अर्यमन् । वर्षिष्ठम् । क्षत्रम् । आशाथेइति
आ । यत् । योनिम् । हिरण्ययम् । वरुण । मित्र । सदथः । धर्तारा । चर्षणीनाम् । यन्तम् । सुम्नम् । रिशादसा
विश्वे । हि । विश्व-वेदसः । वरुणः । मित्रः । अर्यमा । व्रता । पदाइव । सश्चिरे । पान्ति । मर्त्यम् । रिषः
ते । हि । सत्याः । ऋत-स्पृशः । ऋत-वानः । जने--जने । सु-नीथासः । सु-दानवः । अंहोः । चित् । उरु-चक्रयः
कः । नु । वाम् । मित्र । अस्तुतः । वरुणः । वा । तनूनाम् । तत् । सु । वाम् । आ । ईषते । मतिः । अत्रि-भ्यः । आ । ईषते । मतिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0