ऋग्वेदसंहिता, पदपाठ · अध्याय 5.62
॥29॥.
-र्व्_4:3।30-
(र्व्_5,62)
ऋतेन । ऋतम् । अपि-हितम् । ध्रुवम् । वाम् । सूर्यस्य । यत्र । वि-मुचन्ति । अश्वान् । दश । शता । सह । तस्थुः । तत् । एकम् । देवानाम् । श्रेष्ठम् । वपुषाम् । अपश्यम्
तत् । सु । वाम् । मित्रावरुणा । महि-त्वम् । ईर्मा । तस्थुषीः । अह-भिः । दुदुह्रे । विश्वाः । पिन्वथः । स्वसरस्य । धेनाः । अनु । वाम् । एकः । पविः । आ । ववतर्
अधारयतम् । पृथिवीम् । उत । द्याम् । मित्र-राजाना । वरुणा । महः-भिः । वर्धयतम् । ओषधीः । पिन्वतम् । गाः । अव । वृष्टिम् । सृजतम् । जीरदानूइतिजीर-दानू
आ । वाम् । अश्वासः । सु-युजः । वहन्तु । यत-रश्मयः । उप । यन्तु । अर्वाक् । घृतस्य । निः-निक् । अनु । वर्तते । वाम् । उप । सिन्धवः । प्र-दिवि । क्षरन्त् इ
अनु । श्रुताम् । अमतिम् । वर्धत् । उर्वीम् । बर्हिः-इव । यजुषा । रक्षमाणा । नमस्वन्ता । धृत-दक्षा । अधि । गर्ते । मित्र । आसाथेइति । वरुण । इळासु । अन्तरिति
॥30॥.
-र्व्_4:3।31-
अक्रवि-हस्ता । सु-कृते । परः-पा । यम् । त्रासाथे । वरुणा । इलासु । अन्तरिति । राजाना । क्षत्रम् । अहृणीयमाना । सहस्र-स्थूणम् । बिभृथः । सह । द्वौ
हिरण्य-निर्निक् । अयः । अस्य । स्थूणा । वि । भ्राजते । दिवि । अश्वाजनी-इव । भद्रे । क्षेत्रे । नि-मिता । तल्विले । वा । सनेम । मध्वः । अधि-गर्य्तस्य
हिरण्य-रूपम् । उषसः । वि-उष्टौ । अयः-स्थूणम् । उत्-इता । सूर्यस्य । आ । रोहथः । वरुण । मित्र । गर्तम् । अतः । चक्षाथेइति । अदितिम् । दितिम् । च
यत् । बंहिष्ठम् । न । अति-विधे । सुदानूइतिसु-दानू । अच्छिद्रम् । शर्म । भुवनस्य । गोपा । तेन । नः । मित्रावरुणौ । अविष्टम् । सिसासन्तः । जिगीवांसः । स्याम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0