भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.63

5.63.1

॥31॥.
-र्व्_4:4।1-
(र्व्_5,63)
ऋतस्य । गोपौ । अधि । तिष्ठथः । रथम् । सत्य-धर्माणा । परमे । वि-ओमनि । यम् । अत्र । मित्रावरुणा । अवथः । युवम् । तस्मै । वृष्टिः । मधु-मत् । पिन्वते । दिवः

5.63.2

सम्-राजौ । अस्य । भुवनस्य । राजथः । मित्रावरुणा । विदथे । स्वः-दृशा । वृष्टिम् । वाम् । राधः । अमृत-त्वम् । ईमहे । द्यावापृथिवी इति । वि । चरन्ति । तन्यवः

5.63.3

सम्-राजौ । उग्रा । वृषभा । दिवः । पतीइति । पृथिव्याः । मित्रावरुणा । विचर्षणी इतिवि-चर्षणी । चित्रेभिः । अभ्रैः । उप । तिष्ठथः । रवम् । द्याम् । वर्षयथः । असुरस्य । मायया

5.63.4

माया । वाम् । मित्रावरुणा । दिवि । श्रिता । सूर्यः । ज्योतिः । चरति । चित्रम् । आयुधम् । तम् । अभ्रेण । वृष्ट्या । गूहथः । दिवि । पर्जन्य । द्रप्सा । मधु-मन्तः । ईरते

5.63.5

रथम् । युञ्जते । मरुतः । शुभे । सुखम् । शूरः । न । मित्रावरुणा । गो--इष्टिषु । रजांसि । चित्रा । वि । चरन्ति । तन्यवः । दिवः । सम्-राजा । पयसा । नः । उक्षतम्

5.63.6

वाचम् । सु । मित्रावरुणौ । इरावतीम् । पर्जन्यः । चित्राम् । वदति । त्विषि-मतीम् । अभ्रा । वसत । मरुतः । सु । मायया । द्याम् । वर्षयतम् । अरुणाम् । अरेपसम्

5.63.7

धर्मणा । मित्रावरुणा । विपः-चिता । व्रता । रक्षेथेइति । असुरस्य । मायया । ऋतेन । विश्वम् । भुवनम् । वि । राजथः । सूर्यम् । आ । धत्थः । दिवि । चित्र्यम् । रथम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc