ऋग्वेदसंहिता, पदपाठ · अध्याय 5.61
॥25॥.
-र्व्_4:3।26-
(र्व्_5,61)
कः । स्थ । नरः । श्रेष्ठ-तमाः । ये । एकः-एकः । आयय । परमस्याः । परावतः
क्व । वः । अश्वाः । क्व । अभीशवः । कथम् । शेक । कथा । यय । पृष्ठे । सदः । नसोः । यमः
जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः । पुत्र-कृथे । न । जनयः
परा । वीरासः । इतन । मर्यासः । भद्र-जानयः । अग्नि-तपः । यथा । असथ
सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शत-अवयम् । श्यावाश्व-स्तुताय । या । दोः । वीराय । उप-बर्बृहत्
॥26॥.
-र्व्_4:3।27-
उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी । अदेव-त्रात् । अराधसः
वि । या । जानाति । जसुरिम् । वि । तृष्यन्तम् । वि । कामिनम् । देव-त्रा । कृणुते । मनः
उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः । सः । वैर-देये । इत् । समः
उत । मे । अरपत् । युवतिः । ममन्दुषी । प्रति । श्यावाय । वर्तनिम् । वि । रोहिता । पुरु-मीळ्हाय । येमतुः । विप्राय । दीर्घ-यशसे
यः । मे । धेनूनाम् । शतम् । वैदत्-अश्विः । यथा । ददत् । तरन्तः-इव । मंहना
॥27॥.
-र्व्_4:3।28-
ये । ईम् । वहन्ते । आशु-भिः । पिबन्तः । मदिरम् । मधु । अत्र । श्रवांसि । दधिरे
येषाम् । श्रिया । अधि । रोदसी इति । वि-भ्राजन्ते । रथेषु । आ । दिवि । रुक्मः-इव । उपरि
युवा । सः । मारुतः । गणः । त्वेष-रथः । अनेद्यः । शुभम्-यावा । अप्रति-स्कुतः
कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः । ऋत-जाताः । अरेपसः
यूयम् । मर्तम् । विपन्यवः । प्र-नेतारः । इत्था । धिया । श्रोतारः । याम-हूतिषु
॥28॥.
-र्व्_4:3।29-
ते । नः । वसूनि । काम्या । पुरु-चन्द्राः । रिशादसः । आ । यज्ञियासः । ववृत्तन
एतम् । मे । स्तोमम् । ऊर्म्ये । दार्भ्याय । परा । वह । गिरः । देवि । रथीः-इव
उत । मे । वोचतात् । इति । सुत-सोमे । रथ-वीतौ । न । कामः । अप । वेति । मे
एषः । क्षेति । रथ-वीतिः । मघ-वा । गो--मतीः । अनु । पर्वतेषु । अप-श्रितः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0