भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.60

5.60.1

॥24॥.
-र्व्_4:3।25-
(र्व्_5,60)
इळे । अग्निम् । सु-अवसम् । नमः-भिः । इह । प्र-सत्तः । वि । चयत् । कृतम् । नः । रथैः-इव । प्र । भरे । वाजयत्-भिः । प्र-दक्षिणित् । मरुताम् । स्तोमम् । ऋध्याम्

5.60.2

आ । ये । तस्थुः । पृषतीषु । श्रुतासु । सु-खेषु । रुद्राः । मरुतः । रथेषु । वना । चित् । उग्राः । जिहते । नि । वः । भिया । पृथिवी । चित् । रेजते । पर्वतः । चित्

5.60.3

पर्वतः । चित् । महि । वृद्धः । बिभाय । दिवः । चित् । सानु । रेजत । स्वने । वः । यत् । क्रीळथ । मरुतः । ऋष्टि-मन्तः । आपः-इव । सध्र्यञ्चः । धवध्वे

5.60.4

वराः-इव । इत् । रैवतासः । हिरण्यैः । अभि । स्वधाभिः । तन्वः । पिपिश्रे । श्र् इये । श्रेयांसः । तवसः । रथेषु । सत्रा । महांसि । चक्रिरे । तनूषु

5.60.5

अज्येष्ठासः । अकनिष्ठासः । एते । सम् । भ्रातरः । ववृधुः । सौभगाय । युवा । प् इता । स्वपा । रुद्रः । एषाम् । सु-दुघा । पृश्निः । सु-दिना । मरुत्-भ्यः

5.60.6

यत् । उत्-तमे । मरुतः । मध्यमे । वा । यत् । वा । अवमे । सु-भगासः । दिवि । स्थ । अतः । नः । रुद्राः । उत । वा । नु । अस्य । अग्ने । वित्तात् । हविषः । यत् । यजाम

5.60.7

अग्निः । च । यत् । मरुतः । विश्व-वेदसः । दिवः । वहध्वे । उत्-तरात् । अधि । स्नु-भिः । ते । मन्दसानाः । धुनयः । रिशादसः । वामम् । धत्त । यजमानाय । सुन्वते

5.60.8

अग्ने । मरुत्-भिः । शुभयत्-भिः । ऋक्व-भिः । सोमम् । पिब । मन्दसानः । गणश्रि-भिः । पावकेभिः । विश्वम्-इन्वेभिः । आयु-भिः । वैश्वानर । प्र-दिवा । केतुना । स-जूः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc