ऋग्वेदसंहिता, पदपाठ · अध्याय 5.59
॥23॥.
-र्व्_4:3।24-
(र्व्_5,59)
प्र । वः । स्पट् । अक्रन् । सुविताय । दावने । अर्च । दिवे । प्र । पृथिव्यै । ऋतम् । भरे । उक्षन्ते । अश्वान् । तरुषन्ते । आ । रजः । अनु । स्वम् । भानुम् । श्रथयन्ते । अर्णवैः
अमात् । एषाम् । भियसा । भूमिः । एजति । नौः । न । पूर्णा । क्षरति । व्यथिः । यती । दूरे--दृशः । ये । चितयन्ते । एम-भिः । अन्तः । महे । विदथे । येतिरे । नरः
गवाम्-इव । श्रियसे । शृङ्गम् । उत्तमम् । सूर्यः । न । चक्षुः । रजसः । वि-सर्जने । अत्याः-इव । सु-भ्वः । चारवः । स्थन । मर्याः-इव । श्रियसे । चेतथ । नरः
कः । वः । महान्ति । महताम् । उत् । अश्नवत् । कः । काव्या । मरुतः । कः । ह । पैंस्या । यूयम् । ह । भूमिम् । किरणम् । न । रेजथ । प्र । यत् । भरध्वे । सुविताय । दावने
अश्वाः-इव । इत् । अरुषासः । स-बन्धवः । शूराः-इव । प्र-युधः । प्र । उत । युयुधुः । मर्याः-इव । सु-वृधः । ववृधुः । नरः । सूर्यस्य । चक्षुः । प्र । मिनन्ति । वृष्टि-भिः
ते । अज्येष्ठाः । अकनिष्ठासः । उत्-भिदः । अमध्यमासः । महसा । वि । ववृधुः । सु-जातासः । जनुषा । पृश्नि-मातरः । दिवः । मर्याः । आ । नः । अच्छ । जिगातन
वयः । न । ये । श्रेणीः । पप्तुः । ओजसा । अन्तान् । दिवः । बृहतः । सानुनः । परि । अश्वासः । एषाम् । उभये । यथा । विदुः । प्र । पर्वतस्य । नभनून् । अचुच्यवुः
मिमातु । द्यौः । अदितिः । वीतये । नः । सम् । दानु-चित्राः । उषसः । यतन्ताम् । आ । अचुच्यवुः । दिव्यम् । कोशम् । एते । ऋषे । रुद्रस्य । मरुतः । गृणानाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0