भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.5

5.5.1

॥19॥.
-र्व्_3:8।20-
(र्व्_5,5)
सु-समिद्धाय । शोचिषे । घृतम् । तीव्रम् । जुहोतन । अग्नये । जात-वेदसे

5.5.2

नराशंसः । सुसूदति । इमम् । यज्ञम् । अदाभ्यः । कविः । हि । मधु-हस्त्यः

5.5.3

ईळितः । अग्ने । आ । वह । इन्द्रम् । चित्रम् । इह । प्रियम् । सु-खैः । रथेभिः । ऊतये

5.5.4

ऊर्ण-म्रदाः । वि । प्रथस्व । अभि । अर्काः । अनूषत । भव । नः । शुभ्र । सातये

5.5.5

देवीः । द्वारः । वि । श्रयध्वम् । सुप्र-अयनाः । नः । ऊतये । प्र-प्र । यज्ञम् । पृणीतन

5.5.6

॥20॥.
-र्व्_3:8।21-
सुप्रतीके इतिसु-प्रतीके । वयः-वृधा । यह्वी । ऋतस्य । मातरा । दोषाम् । उषसम् । ईमहे

5.5.7

वातस्य । पत्मन् । ईळिता । दैव्या । होतारा । मनुषः । इमम् । नः । यज्ञम् । आ । गतम्

5.5.8

इळा । सरस्वती । मही । तिस्रः । देवीः । मयः-भुवः । बर्हिः । सीदन्तु । अस्रि धह्

5.5.9

शिवः । त्वष्टः । इह । आ । गहि । वि-भुः । पोषे । उत । त्मना । यज्ञे--यज्ञे । नः । उत् । अव

5.5.10

यत्र । वेत्थ । वनस्पते । देवानाम् । गुह्या । नामानि । तत्र । हव्यानि । गमय

5.5.11

स्वाहा । अग्नये । वरुणाय । स्वाहा । इन्द्राय । मरुत्-भ्यः । स्वाहा । देवेभ्यः । हविः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc