भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.58

5.58.1

॥22॥.
-र्व्_4:3।23-
(र्व्_5,58)
तम् । ओं इति । नूनम् । तविषी-मन्तम् । एषाम् । स्तुषे । गणम् । मारुतम् । नव्यसीनाम् । ये । आशु-अश्वाः । अम-वत् । वहन्ते । उत । ईशिरे । अमृतस्य । स्व-राजः

5.58.2

त्वेषम् । गणम् । तवसम् । खादि-हस्तम् । धुनि-व्रतम् । मायिनम् । दाति-वारम् । मयः-भुवः । ये । अमिताः । महि-त्वा । वन्दस्व । विप्र । तुवि-राधसः । नॄन्

5.58.3

आ । वः । यन्तु । उद-वाहासः । अद्य । वृष्टिम् । ये । विश्वे । मरुतः । जुनन्ति । अयम् । यः । अग्निः । मरुतः । सम्-इद्धः । एतम् । जुषध्वम् । कवयः । युवानः

5.58.4

यूयम् । राजानम् । इर्यम् । जनाय । विभ्व-तष्टम् । जनयथ । यजत्राः । युष्मत् । एति । मुष्टि-हा । बाहु-जूतः । युष्मत् । सत्-अश्वः । मरुतः । सु-वीरः

5.58.5

अराः-इव । इत् । अचरमाः । अहाइव । प्र-प्र । जायन्ते । अकवाः । महः-भि ः । पृश्नेः । पुत्राः । उप-मासः । रभिष्ठाः । स्वया । मत्या । मरुतः । सम् । मि मिक्षुः

5.58.6

यत् । प्र । अयासिष्ट । पृषतीभिः । अश्वैः । वीळुपवि-भिः । मरुतः । रथेभिः । क्षोदन्ते । आपः । रिणते । वनानि । अव । उस्रियः । वृषभः । क्रन्दतु । द्यौः

5.58.7

प्रथिष्ट । यामन् । पृथिवी । चित् । एषाम् । भर्ताइव । गर्भम् । स्वम् । इत् । शवः । धुः । वातान् । हि । अश्वान् । धुरि । आयुयुज्रे । वर्षम् । स्वेदम् । चक्रिरे । रुद्रियासः

5.58.8

हये । नरः । मरुतः । मृळत । नः । तुवि-मघासः । अमृताः । ऋत-ज्ञाः । सत्य-श्रुतः । कवयः । युवानः । बृहत्-गिरयः । बृहत् । उक्षमाणाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc