भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.57

5.57.1

॥20॥.
-र्व्_4:3।21-
(र्व्_5,57)
आ । रुद्रासः । इन्द्र-वन्तः । स-जोषसः । हिरण्य-रथाः । सुविताय । गन्तन । इयम् । वः । अस्मत् । प्रति । हर्यते । मतिः । तृष्ण-जे । न । दिवः । उत्साः । उदन्यवे

5.57.2

वाशी-मन्तः । ऋष्टि-मन्तः । मनीषिणः । सु-धन्वानः । इषु-मन्तः । निषङ्गिणः । सु-अश्वाः । स्थ । सु-रथाः । पृश्नि-मातरः । सु-आयुधाः । मरुतः । याथन । शुभम्

5.57.3

धूनुथ । द्याम् । पर्वताम् । दाशुषे । वसु । नि । वः । वना । जिहते । यामनः । भिया । कोपयथ । पृथिवीम् । पृश्नि-मातरः । शुभे । यत् । उग्राः । पृषतीः । अयुग्ध्वम्

5.57.4

वात-त्विषः । मरुतः । वर्ष-निर्निजः । यमाः-इव । सु-सदृशः । सु-पेशसः । पिशङ्ग-अश्वाः । अरुण-अस्वाः । अरेपसः । प्र-त्वक्षसः । महिना । द्यौः-इव । उरवः

5.57.5

पुरु-द्रप्साः । अञ्जि-मन्तः । सु-दानवः । त्वेष-सन्दृशः । अनवभ्र-राधसः । सुजातासः । जनुषा । रुक्म-वक्षसः । दिवः । अर्काः । अमृतम् । नाम । भेजिरे

5.57.6

॥21॥.
-र्व्_4:3।22-
ऋष्टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलम् । हितम् । नृम्णा । शीर्ष-सु । आयुधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे

5.57.7

गो--मत् । अश्व-वत् । रथ-वत् । सु-वीरम् । चन्द्र-वत् । राधः । मरुतः । दद । नः । प्र-शस्तिम् । नः । कृणुत । रुद्रियासः । भक्षीय । वः । अवसः । दैव्यस्य

5.57.8

हये । नरः । मरुतः । मृळत । नः । तुवि-मघासः । अमृताः । ऋत-ज्ञाः । सत्य-श्रुतः । कवयः । युवानः । बृहत्-गिरयः । बृहत् । उक्षमाणाः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc