भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.56

5.56.1

॥18॥.
-र्व्_4:3।19-
(र्व्_5,56)
अग्ने । शर्धन्तम् । आ । गणम् । पिष्टम् । रुक्मेभिः । अञ्जि-भिः । विशः । अद्य । मरुताम् । अव । ह्वये । दिवः । चित् । रोचनात् । अधि

5.56.2

यथा । चित् । मन्यसे । हृदा । तत् । इत् । मे । जग्मुः । आशसः । ये । ते । नेदिष्ठम् । हवनानि । आगमन् । तान् । वर्ध । भीम-सन्दृशः

5.56.3

मीळ्हुष्मती-इव । पृथिवी । पराहता । मदन्ती । एति । अस्मत् । आ । ऋक्षः । न । वः । मरुतः । शिमी-वान् । अमः । दुध्रः । गौः-इव । भीम-युः

5.56.4

नि । ये । रिणन्ति । ओजसा । वृथा । गावः । न । दुः-धुरः । अश्मानम् । चित् । स्वर्यम् । पर्वतम् । गिरिम् । प्र । च्यवयन्ति । याम-भिः

5.56.5

उत् । तिष्ठ । नूनम् । एषाम् । स्तोमैः । सम्-उक्षितानाम् । मरुताम् । पुरु-तमम् । अपूर्व्यम् । गवाम् । सर्गम्-इव । ह्वये

5.56.6

॥19॥.
-र्व्_4:3।20-
युङ्ग्ध्वम् । हि । अरुषीः । रथे । युङ्ग्ध्वम् । रथेषु । रोहितः । युङ्ग्ध्वम् । हरी इति । अजिरा । धुरि । वोळ्हवे । वहिष्ठा । धुरि । वोळ्हवे

5.56.7

उत । स्यः । वाजी । अरुषः । तुवि-स्वणिः । इह । स्म । धायि । दर्शतः । मा । वः । यामेषु । मरुतः । चिरम् । करत् । प्र । तम् । रथेषु । चोदत

5.56.8

रथम् । नु । मारुतम् । वयम् । श्रवस्युम् । आ । हुवामहे । आ । यस्मिन् । तस्थौ । सुरणानि । बिभ्रती । सचा । मरुत्-सु । रोदसी

5.56.9

तम् । वः । शर्धम् । रथे--शुभम् । त्वेषम् । पनस्युम् । आ । हुवे । यस्मिन् । सु-जाता । सु-भगा । महीयते । सचा । मरुत्-सु । मीळ्हुषी

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc