ऋग्वेदसंहिता, पदपाठ · अध्याय 5.52
॥7॥.
-र्व्_4:3।8-
(र्व्_5,52)
प्र । श्याव-अश्व । धृष्णु-या । अर्च । मरुत्-भिः । ऋक्व-भिः । ये । अद्रोघम् । अनु-स्वधम् । श्रवः । मदन्ति । यज्ञियाः
ते । हि । स्थिरस्य । शवसः । सखायः । सन्ति । धृष्णु-या । ते । यामन् । आ । धृषत्-विनः । त्मना । पान्ति । शश्वतः
ते । स्पन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः । मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे
मरुत्-सु । वः । दधीमहि । स्तोमम् । यज्ञम् । च । धृष्णु-या । विश्वे । ये । मानुषा । युगा । पान्ति । मर्त्यम् । रिषः
अर्हन्तः । ये । सु-दानवः । नरः । असामि-शवसः । प्र । यज्ञम् । यज्ञियेभ्यः । दिवः । अर्च । मरुत्-भ्यः
॥8॥.
-र्व्_4:3।9-
आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत । अनु । एनान् । अह । वि-द्युतः । मरुतः । जज्झतीः-इव । भानुः । अर्त । त्मना । दिवः
ये । ववृधन्त । पार्थिवाः । ये । उरौ । अन्तरिक्षे । आ । वृजने । वा । नदीनाम् । सध-स्थे । वा । महः । दिवः
शर्धः । मारुतम् । उत् । शंस । सत्य-शवसम् । ऋभ्वसम् । उत । स्म । ते । शुभे । नरः । प्र । स्पन्द्राः । युजत । त्मना
उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः । उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा
आपथयः । वि-पथयः । अन्तः-पथाः । अनु-पथाः । एतेभिः । मह्यम् । नाम-भिः । यज्ञम् । वि-स्तारः । ओहते
॥9॥.
-र्व्_4:3।10-
अध । नरः । नि । ओहते । अध । नि-युतः । ओहते । अध । पारावताः । इति । चित्रा । रूपाणि । दर्श्या
छन्दः-स्तुभः । कुभन्यवः । उत्सम् । आ । कीरिणः । नृतुः । ते । मे । के । चित् । न । तायवः । ऊमाः । आसन् । दृशि । त्विषे
यः । ऋष्वाः । ऋष्टि-विद्युतः । कवयः । सन्ति । वेधसः । तम् । ऋषे । मारुतम् । गणम् । नमस्य । रमय । गिरा
अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा । दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत
नु । मन्वानः । एषाम् । देवान् । अच्छ । न । वक्षणा । दाना । सचेत । सूरि-भिः । याम-श्रुतेभिः । अञ्जि-भिः
प्र । ये । मे । बन्धु-एषे । गाम् । वोचन्त । सूरयः । पृश्निम् । वोचन्त । मातरम् । अध । पितरम् । इष्मिणम् । रुद्रम् । वोचन्त । शिक्वसः
सप्त । मे । सप्त । शाकिनः । एकम्-एका । शता । ददुः । यमुनायाम् । अधि । शृउतम् । उत् । राधः । गव्यम् । मृजे । नि । राधः । अश्व्यम् । मृजे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0