भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.51

5.51.1

॥4॥.
-र्व्_4:3।5-
(र्व्_5,51)
अग्ने । सुतस्य । पीतये । विश्वैः । ऊमेभिः । आ । गहि । देवेभिः । हव्य-दातये

5.51.2

ऋत-धीतयः । आ । गत । सत्य-धर्माणः । अध्वरम् । अग्नेः । पिबत । जिह्वया

5.51.3

विप्रेभिः । विप्र । सन्त्य । प्रातर्याव-भिः । आ । गहि । देवेभिः । सोम-पीतये

5.51.4

अयम् । सोमः । चमू इति । सुतः । अमत्रे । परि । सिच्यते । प्रियः । इन्द्राय । वायवे

5.51.5

वायो इति । आ । याहि । वीतये । जुषाणः । हव्य-दातये । पिब । सुतस्य । अन्धसः । अभि । प्रयः

5.51.6

॥5॥.
-र्व्_4:3।6-
इन्द्रः । च । वायो इति । एषाम् । सुतानाम् । पीतिम् । अर्हथः । तान् । जुषेथाम् । अरेपसौ । अभि । प्रयः

5.51.7

सुताः । इन्द्राय । वायवे । सोमासः । दधि-आशिरः । निम्नम् । न । यन्ति । सिन्धवः । अभि । प्रयः

5.51.8

स-जूः । विश्वेभिः । देवेभिः । अश्वि-भ्याम् । उषसा । स-जूः । आ । याहि । अग्ने । अत्रि-वत् । सुते । रण

5.51.9

स-जूः । मित्रावरुणाभ्याम् । स-जूः । सोमेन । विष्णुना । आ । याहि । अग्ने । अत्रि-वत् । सुते । रण

5.51.10

स-जूः । आदित्यैः । वसु-भिः । स-जूः । इन्द्रेण । वायुना । आ । याहि । अग्ने । अत्रि-वत् । सुते । रण

5.51.11

॥6॥.
-र्व्_4:3।7-
स्वस्ति । नः । मिमीताम् । अश्विना । भगः । स्वस्ति । देवी । अदितिः । अनर्वणः । स्वस्ति । पूषा । असुरः । दधातु । नः । स्वस्ति । द्यावापृथिवी इति । सु-चेतुना

5.51.12

स्वस्तये । वयुम् । उप । ब्रवामहै । सोमम् । स्वस्ति । भुवनस्य । यः । पतिः । बृहस्पतिम् । सर्व-गणम् । स्वस्तये । स्वस्तये । आदित्यासः । भवन्तु । नः

5.51.13

विश्वे । देवाः । नः । अद्य । स्वस्तये । वैश्वानरः । वसुः । अग्निः । स्वस्तये । देवाः । अवन्तु । ऋभवः । स्वस्तये । स्वस्ति । नः । रुद्रः । पातु । अंहसः

5.51.14

स्वस्ति । मित्रावरुणा । स्वस्ति । पथ्ये । रेवति । स्वस्ति । नः । इन्द्रः । च । अग्निः । च । स्वस्ति । नः । अदिते । कृधि

5.51.15

स्वस्ति । पन्थाम् । अनु । चरेम । सूर्याचन्द्रमसौ-इव । पुनः । ददता । अघ्नता । जानता । सम् । गमेमहि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc