भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.50

5.50.1

॥3॥.
-र्व्_4:3।4-
(र्व्_5,50)
विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् । विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे

5.50.2

ते । ते । देव । नेतः । ये । च । इमान् । अनु-शसे । ते । राया । ते । हि । आपृचे । सचेमहि । सचथ्यैः

5.50.3

अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत । आरे । विश्वम् । पथे--स्थाम् । द्विषः । युयोतुयूयुविः

5.50.4

यत्र । वह्निः । अभि-हितः । दुद्रवत् । द्रोण्यः । पशुः । नृ-मनाः । वीर-पस्त्यः । अर्णाः । धीराइव । सनिता

5.50.5

एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः । शम् । राये । शम् । स्वस्तये । इषः-स्तुतः । मनामहे । देव-स्तुतः । मनामहे

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc