भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.49

5.49.1

॥2॥.
-र्व्_4:3।3-
(र्व्_5,49)
देवम् । वः । अद्य । सवितारम् । आ । ईषे । भगम् । च । रत्नम् । वि-भजन्तम् । आयोः । आ । वाम् । नरा । पुरु-भुजा । ववृत्याम् । दिवे--दिवे । चित् । अश्विना । सखि-यन्

5.49.2

प्रति । प्र-यानम् । असुरस्य । विद्वान् । सु-उक्तैः । देवम् । सवितारम् । दुवस्य । उप । ब्रुवीत । नमसा । वि-जानन् । ज्येष्ठम् । च । रत्नम् । वि-भजन्तम् । आयोः

5.49.3

अदत्र-या । दयते । वार्याणि । पूषा । भगः । अदितिः । वस्ते । उस्रः । इन्द्रः । विष्णुः । वरुणः । मित्रः । अग्निः । अहानि । भद्रा । जनयन्त । दस्माः

5.49.4

तत् । नः । अनर्वा । सविता । वरूथम् । तत् । सिन्धवः । इषयन्तः । अनु । ग्मन् । उप । यत् । वोचे । अध्वरस्य । होता । रायः । स्याम । पतयः । वाज-रत्नाः

5.49.5

प्र । ये । वसु-भ्यः । ईवत् । आ । नमः । दुः । ये । मित्रे । वरुणे । सूक्त-वाचः । अव । एतु । अभ्वम् । कृणुत । वरीयः । दिवःपृथिव्योः । अवसा । मदेम

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc