ऋग्वेदसंहिता, पदपाठ · अध्याय 5.4
॥17॥.
-र्व्_3:8।18-
(र्व्_5,4)
त्वाम् । अग्ने । वसु-पतिम् । वसूनाम् । अभि । प्र । मन्दे । अध्वरेषु । राजन् । त्वया । वाजम् । वाज-यन्तः । जयेम । अभि । स्याम । पृत्सुतीः । मर्त्यानाम्
हव्य-वाट् । अग्निः । अजरः । पिता । नः । वि-भुः । विभावा । सु-दृशीकः । अस्मे इति । सु-गार्हपत्याः । सम् । इषः । दिदीहि । अस्मद्र्यक् । सम् । मिमीहि । श्रवांसि
विशाम् । कविम् । विश्पतिम् । मानुषीणाम् । शुचिम् । पावकम् । घृत-पृष्ठम् । अग्निम् । नि । होतारम् । विश्व-विदम् । दधिध्वे । सः । देवेषु । वनते । वार्याणि
जुषस्व । अग्ने । इळया । स-जोषाः । यतमानः । रश्मि-भिः । सूर्यस्य । जुषस्व । नः । सम्-इधम् । जात-वेदः । आ । च । देवान् । हविः-अद्याय । वक्षि
जुष्टः । दमूनाः । अतिथिः । दुरोणे । इमम् । नः । यज्ञम् । उप । याहि । विद्वान् । विश्वा । अग्ने । अभि-युजः । वि-हत्य । शत्रु-यताम् । आ । भर । भोजनानि
॥18॥.
-र्व्_3:8।19-
वेधेन । दस्युम् । प्र । हि । चातयस्व । वयः । कृण्वानः । तन्वे । स्वायै । पिपर्षि । यत् । सहसः । पुत्र । देवान् । सः । अग्ने । पाहि । नृ-तम । वाजे । अस्मान्
वयम् । ते । अग्ने । उक्थैः । विधेम । वयम् । हव्यैः । पावक । भद्र-शोचे । अस्मे इति । रयिम् । विश्व-वारम् । सम् । इन्व । अस्मे इति । विश्वानि । द्रविणानि । धेहि
अस्माकम् । अग्ने । अध्वरम् । जुषस्व । सहसः । सूनो इति । त्रि-सधस्थ । हव्यम् । वयम् । देवेषु । सु-कृतः । स्याम । शर्मणा । नः । त्रि-वरूथेन । पाहि
विश्वानि । नः । दुः-गहा । जात-वेदः । सिन्धुम् । न । नावा । दुः-इता । अति । पर्षि । अग्ने । अत्रि-वत् । नमसा । गृणानः । अस्माकम् । बोधि । अविता । तनूनाम्
यः । त्वा । हृदा । कीरिणा । मन्यमानः । अमर्यः । जोहवीमि । जात-वेदः । यशः । अस्मासु । धेहि । प्र-जाभिः । अग्ने । अमृत-त्वम् । अश्याम्
यस्मै । त्वम् । सु-कृते । जात-वेदः । ओं इति । लोकम् । अग्ने । कृणवः । स्योनम् । अश्विनम् । सः । पुत्रिणम् । वीर-वन्तम् । गो--मन्तम् । रयिम् । नशते । स्वस्ति
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0