भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.48

5.48.1

॥1॥.
-र्व्_4:3।2-
(र्व्_5,48)
कत् । ओं इति । प्रियाय । धाम्ने । मनामहे । स्व-क्षत्राय । स्व-यशसे । महे । वयम् । आमेन्यस्य । रजसः । यत् । अभ्रे । आ । अपः । वृणाना । वि-तनोति । मायिनी

5.48.2

ताः । अत्नत । वयुनम् । वीर-वक्षणम् । समान्या । वृतया । विश्वम् । आ । रजः । अपो इति । अपाचीः । अपराः । अप । ईजते । प्र । पूर्वाभिः । तिरते । देव-युः । जनः

5.48.3

आ । ग्राव-भिः । अहन्येभिः । अक्तु-भिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि । शतम् । वा । यस्य । प्र-चरन् । स्वे । दमे । सम्-वर्तयन्तः । वि । च । वतर्यन् । अहा

5.48.4

ताम् । अस्य । रीतिम् । परशोः-इव । प्रति । अनीकम् । अख्यम् । भुजे । अस्य । वर्पसः । सचा । यदि । पितुमन्तम्-इव । क्षयम् । रत्नम् । दधाति । भर-हूतये । वि शे

5.48.5

सः । जिह्वया । चतुः-अनीकः । ऋञ्जते । चारु । वसानः । वरुणः । यतन् । अरिम् । न । तस्य । विद्म । पुरुष-त्वता । वयम् । यतः । भगः । सविता । दाति । वार्यम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc