ऋग्वेदसंहिता, पदपाठ · अध्याय 5.47
॥28॥.
-र्व्_4:3।1-
(र्व्_5,47)
प्रयुञ्जती । दिवः । एति । ब्रुवाणा । मही । माता । दुहितुः । बोधयन्ती । आविवासन्ती । युवतिः । मनीषा । पितृ-भ्यः । आ । सदने । जोहुवाना
अजिरासः । तत्-अपः । ईयमानाः । आतस्थि-वांसः । अमृतस्य । नाभिम् । अनन्तासः । उरवः । विश्वतः । सीम् । परि । द्यावापृथिवी इति । यन्ति । पन्थाः
उक्षा । समुद्रः । अरुषः । सु-पर्णः । पूर्वस्य । योनिम् । पितुः । आ । विवेश । मध्ये । दिवः । नि-हितः । पृश्निः । अश्मा । वि । चक्रमे । रजसः । पाति । अन्तौ
चत्वारः । ईम् । बिभ्रति । क्षेम-यन्तः । दश । गर्भम् । चरसे । धापयन्ते । त्रि-धातवः । परमाः । अस्य । गावः । दिवः । चरन्ति । परि । सद्यः । अन्तान्
इदम् । वपुः । नि-वचनम् । जनासः । चरन्ति । यत् । नद्यः । तस्थुः । आपः । द्वे इति । यत् । ईम् । बिभृतः । मातुः । अन्ये । इह-इह । जाते इति । यम्या । सबन्धूइतिस-बन्धू
वि । तन्वते । धियः । अस्मै । अपांसि । वस्त्रा । पुत्राय । मातरः । वयन्ति । उप-प्रक्षे । वृषणः । मोदमानाः । दिवः । पथा । वध्वः । यन्ति । अच्छ
तत् । अस्तु । मित्रावरुणा । तत् । अग्ने । शम् । योः । अस्मभ्यम् । इदम् । अस्तु । शस्तम् । अशीमहि । गाधम् । उत । प्रति-स्थाम् । नमः । दिवे । बृहते । सादनाय
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0