ऋग्वेदसंहिता, पदपाठ · अध्याय 5.46
॥27॥.
-र्व्_4:2।28-
(र्व्_5,46)
हयः । न । विद्वान् । अयुजि । स्वयम् । धुरि । ताम् । वहामि । प्रतरणीम् । अवस्युवम् । न । अस्याः । वश्मि । वि-मुचम् । न । आवृतम् । पुनः । विद्वान् । पथः । पुरः-एता । ऋजु । नेषति
अग्ने । इन्द्र । वरुण । मित्र । देवाः । शर्धः । प्र । यन्त । मारुत । उत । विष्णो इति । उभा । नासत्या । रुद्रः । अध । ग्नाः । पूषा । भगः । सरस्वती । जुषन्त
इन्द्राग्नी इति । मित्रावरुणा । अदितिम् । स्वर् इति स्वः । पृथिवीम् । द्याम् । मरुतः । पर्वतान् । अपः । हुवे । विष्णुम् । पूषणम् । ब्रह्मणः । पतिम् । भगम् । नु । शंसम् । सव् इतारम् । ऊतये
उत । नः । विष्णुः । उत । वातः । अस्रिधः । द्रविणः-दा । उत । सोमः । मयः । करत् । उत । ऋभवः । उत । राये । नः । अश्विना । उत । त्वष्टा । उत । विभ्वा । अनु । मंसते
उत । त्यम् । नः । मारुतम् । शर्धः । आ । गमत् । दिवि-क्षयम् । यजतम् । बर्हिः । आसदे । बृहस्पतिः । शर्म । पूषा । उत । नः । यमत् । वरूथ्यम् । वरुणः । मित्रः । अर्यमा
उत । त्ये । नः । पर्वतासः । सु-शस्तयः । सु-दीतयः । नद्यः । त्रामणे । भुवन् । भगः । वि-भक्ता । शवसा । अवसा । आ । गमत् । उरु-व्यचाः । अदितिः । श्रोतु । मे । हवम्
देवानाम् । पत्नीः । उशतीः । अवन्तु । नः । प्र । अवन्तु । नः । तुजये । वाज-सातये । याः । पार्थिवासः । याः । अपाम् । अपि । व्रते । ताः । नः । देवीः । सु-हवाः । शर्म । यच्छत
उत । ग्नाः । व्यन्तु । देव-पत्नीः । इन्द्राणी । अग्नायी । अश्विनी । राट् । आ । रोदसी इति । वरुणानी । शृणोतु । व्यन्तु । देवीः । यः । ऋतुः । जनीनाम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0