ऋग्वेदसंहिता, पदपाठ · अध्याय 5.45
॥25॥.
-र्व्_4:2।26-
(र्व्_5,45)
विदाः । दिवः । वि-स्यन् । अद्रिम् । उक्थैः । आयत्याः । उषसः । अर्चिनः । गुः । अप । अवृत । व्रजिनीः । उत् । स्वः । गात् । वि । दुरः । मानुषीः । देवः । आवर् इत्य् आवः
वि । सूर्यः । अमतिम् । न । श्रियम् । सात् । आ । ऊर्वात् । गवाम् । माता । जानती । गात् । धन्व-अर्णसः । नद्यः । खादः-अर्णाः । स्थूणाइव । सु-मिता । दृंहत । द्यौः
अस्मै । उक्थाय । पर्वतस्य । गर्भः । महीनाम् । जनुषे । पूर्व्याय । वि । पवर्तः । जिहीत । साधत । द्यौः । आविवासन्तः । दसयन्त । भूम
सु-उक्तेभिः । वः । वचः-भिः । देव-जुष्टैः । इन्द्रा । नु । अग्नी इति । अवसे । हुवध्यै । उक्थेभिः । हि । स्म । कवयः । स्-यज्ञाः । आविवासन्तः । मरुतः । यजन्ति
एतो इति । नु । अद्य । सु-ध्यः । भवाम । प्र । दुच्छुनाः । मिनवाम । वरीयः । आरे । द्वेषांसि । सनुतः । दधाम । अयाम । प्राञ्चः । यजमानम् । अच्छ
॥26॥.
-र्व्_4:2।27-
आ । इत । धियम् । कृणवाम । सखायः । अप । या । माता । ऋणुत । व्रजम् । गोः । यया । मनुः । विशि-शिप्रम् । जिगाय । यया । वणिक् । वङ्कुः । आप । पुरीषम्
अनूनोत् । अत्र । हस्त-यतः । अद्रिः । आर्चन् । येन । दश । मासः । नव-ग्वाः । ऋतम् । यती । सरमा । गाः । अविन्दत् । विश्वानि । सत्या । अङ्गिराः । चकार
विश्वे । अस्याः । वि-उषि । माहिनायाः । सम् । यत् । गोभिः । अङ्गिरसः । नवन्त । उत्सः । आसाम् । परमे । सध-स्थे । ऋतस्य । पथा । सरमा । विदत् । गाः
आ । सूर्यः । यातु । सप्त-अश्वः । क्षेत्रम् । यत् । अस्य । उर्विया । दीर्घ-याथे । रघुः । श्येनः । पतयत् । अन्धः । अच्छ । युवा । कविः । दीदयत् । गोषु । गच्छन्
आ । सूर्यः । अरुहत् । शुक्रम् । अर्णः । अयुक्त । यत् । हरितः । वीत-पृष्ठाः । उद्ना । न । नावम् । अनयन्त । धीराः । आशृण्वतीः । आपः । अर्वाक् । अतिष्ठन्
धियम् । वः । अप्-सु । दधिषे । स्वः-साम् । यया । अतरन् । दश । मासः । नव-ग्वाः । अया । धिया । स्याम । देव-गोपाः । अया । धिया । तुतुर्याम । अति । अंहः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0