ऋग्वेदसंहिता, पदपाठ · अध्याय 5.44
॥22॥.
-र्व्_4:2।23-
(र्व्_5,44)
तम् । प्रत्न-था । पूर्व-था । विश्व-था । इम्-अथा । ज्येष्ठ-तातिम् । बर्हि-सदम् । स्वः-विदम् । प्रतीचीनम् । वृजनम् । दोहसे । गिरा । आशुम् । जयन्तम् । अनु । यासु । वर्धसे
श्रिये । सु-दृशीः । उपरस्य । याः । स्वः । वि-रोचमानः । ककुभाम् । अचोदते । सु-गोपाः । असि । न । दभाय । सुक्रतो इतिसु-क्रतो । परः । मायाभिः । ऋते । आस । नाम । ते
अत्यम् । हविः । सचते । सत् । च । धातु । च । अरिष्त-गातुः । सः । होता । सहः-भरिः । प्र-सर्स्राणः । अनु । बर्हिः । वृषा । शिशुः । मध्ये । युवा । अजरः । वि-स्रुहा । हितः
प्र । वः । एते । सु-युजः । यामन् । इष्टये । नीचीः । अमुष्मै । यम्यः । ऋत-वृधः । सुयन्तु-भिः । सर्व-शासैः । अभीशु-भिः । क्रिविः । नामानि । प्रवणे । मुषायति
सम्-जर्भुराणः । तरु-भिः । सुते--गृभम् । वयाकिनम् । चित्त-गर्भासु । सु-स्वरुः । धार-वाकेषु । ऋजु-गाथ । शोभसे । वर्धस्व । पत्नीः । अभि । जीवः । अध्वरे
॥23॥.
-र्व्_4:2।24-
यादृक् । एव । ददृशे । तादृक् । उच्यते । सम् । छायया । दधिरे । सिध्रया । अप्-सु । आ । महीम् । अस्मभ्यम् । उरु-साम् । उरु । ज्रयः । बृहत् । सु-वीरम् । अनप-च्युतम् । सहः
वेति । अग्रुः । जनि-वान् । वै । अति । स्पृधः । स-मर्यता । मनसा । सूर्यः । कविः । घ्रंसम् । रक्षन्तम् । परि । विश्वतः । गयम् । अस्माकम् । शर्म । वनवत् । स्व-वसुः
ज्यायांसम् । अस्य । यतुनस्य । केतुना । ऋषि-स्वरम् । चरति । यासु । नाम । ते । यादृश्मिन् । धायि । तम् । अपस्यया । विदत् । यः । ओं इति । स्वयम् । वहते । सः । अरम् । करत्
समुद्रम् । आसाम् । अव । तस्थे । अग्रिमा । न । रिष्यति । सवनम् । यस्मिन् । आयता । अत्र । न । हार्दि । क्रवणस्य । रेजते । यत्र । मतिः । विद्यते । पूत-बन्धनी
सः । हि । क्षत्रस्य । मनसस्य । चित्ति-भिः । एव-वदस्य । यजतस्य । सध्रेः । अव-त्सारस्य । स्पृणवाम । रण्व-भिः । शविष्ठम् । वाजम् । विदुषा । चित् । अर्ध्यम्
॥24॥.
-र्व्_4:2।25-
श्येनः । आसाम् । अदितिः । कक्ष्यः । मदः । विश्व-वारस्य । यजतस्य । मायिनः । सम् । अन्यम्-अन्यम् । अर्थयन्ति । एतवे । विदुः । वि-साणम् । परि-पानम् । अन्ति । ते
सदापृणः । यजतः । वि । द्विषः । वधीत् । बाहु-वृक्तः । श्रुत-वित् । तर्यः । वः । सचा । उभा । सः । वरा । प्रति । एति । भाति । च । यत् । ईम् । गणम् । भजते । सुप्रयाव-भिः
सुतम्-भरः । यजमानस्य । सत्-पतिः । विश्वासाम् । ऊधः । सः । धियाम् । उत्-अञ्चनः । भरत् । धेनुः । रस-वत् । शिश्रिये । पयः । अनु-ब्रुवाणः । अधि । एति । न । स्वपन्
यः । जागार । तम् । ऋचः । कामयन्ते । यः । जागार । तम् । ओं इति । सामानि । यन्ति । यः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । नि-ओकाः
अग्निः । जागार । तम् । ऋचः । कामयन्ते । अग्निः । जागार । तम् । ओं इति । सामानि । यन्ति । अग्निः । जागार । तम् । अयम् । सोमः । आह । तव । अहम् । अस्मि । सख्ये । नि-ओकाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0