भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.43

5.43.1

॥19॥.
-र्व्_4:2।20-
(र्व्_5,43)
आ । धेनवः । पयसा । तूर्णि-अर्थाः । अमर्धन्तीः । उप । नः । यन्तु । मध्वा । महः । राये । बृहतीः । सप्त । विप्रः । मयः-भुवः । जरिता । जोहवीति

5.43.2

आ । सु-स्तुती । नमसा । वर्तयध्यै । द्यावा । वाजाय । पृथिवी इति । अमृध्रेइति । पिता । माता । मधु-वचाः । सु-हस्ता । भरे--भरे । नः । यशसौ । अविष्टाम्

5.43.3

अध्वर्यवः । चकृ-वांसः । मधूनि । प्र । वायवे । भरत । चारु । शुक्रम् । होताइव । नः । प्रथमः । पाहि । अस्य । देव । मध्वः । ररिम । ते । मदाय

5.43.4

दश । क्षिपः । युञ्जते । बाहू इति । अद्रिम् । सोमस्य । या । शमितारा । सु-हस्ता । मध्वः । रसम् । सु-गभस्तिः । गिरि-स्थाम् । चनिश्चदत् । दुदुहे । शुक्रम् । अंशुः

5.43.5

असावि । ते । जुजुषाणाय । सोमः । क्रत्वे । दक्षाय । बृहते । मदाय । हरी इति । रथे । सु-धुरा । योगे । अर्वाक् । इन्द्र । प्रिया । कृणुहि । हूयमानः

5.43.6

॥20॥.
-र्व्_4:2।21-
आ । नः । महीम् । अरमतिम् । स-जोषाः । ग्नाम् । देवीम् । नमसा । रात-हव्याम् । मधोः । मदाय । बृहतीम् । ऋत-ज्ञाम् । आ । अग्ने । वह । पथि-भिः । देव-यानैः

5.43.7

अञ्जन्ति । यम् । प्रथयन्तः । न । विप्राः । वपावन्तम् । न । अग्निना । तपन्तः । पितुः । न । पुत्रः । उपसि । प्रेष्ठः । आ । घर्मः । अग्निम् । ऋतयन् । असादि

5.43.8

अच्छ । मही । बृहती । शम्-तमा । गीः । दूतः । न । गन्तु । अश्विना । हुवध्यै । मयः-भुवा । सरथा । आ । यातम् । अर्वाक् । गन्तम् । नि-धिम् । धुरम् । आणिः । न । नाभिम्

5.43.9

प्र । तव्यसः । नमः-उक्तिम् । तुरस्य । अहम् । पूष्णः । उत । वायोः । अदिक्षि । या । राधसा । चोदितारा । मतीनाम् । या । वाजस्य । द्रविणः-दौ । उत । त्मन्

5.43.10

आ । नाम-भिः । मरुतः । वक्षि । विश्वान् । आ । रूपेभिः । जात-वेदः । हुवानः । यज्ञम् । गिरः । जरितुः । सु-स्तुतिम् । च । विश्वे । गन्त । मरुतः । विश्वे । ऊती

5.43.11

॥21॥.
-र्व्_4:2।22-
आ । नः । दिवः । बृहतः । पर्वतात् । आ । सरस्वती । यजता । गन्तु । यज्ञम् । हवम् । देवी । जुजुषाणा । घृताची । शग्माम् । नः । वाचम् । उशती । शृणोतु

5.43.12

आ । वेधसम् । नील-पृष्ठम् । बृहन्तम् । बृहस्पतिम् । सदने । सादयध्वम् । सादत्-योनिम् । दमे । आ । दीदि-वांसम् । हिरण्य-वर्णम् । अरुषम् । सपेम

5.43.13

आ । धर्णसिः । बृहत्-दिवः । रराणः । विश्वेभिः । गन्तु । ओम-भिः । हुवानः । ग्नाः । वसानः । ओषधीः । अमृध्रः । त्रिधातु-शृङ्गः । वृषभः । वयः-धाः

5.43.14

मातुः । पदे । परमे । शुक्रे । आयोः । विपन्यवः । रास्पिरासः । अग्मन् । सु-शेव्यम् । नमसा । रात-हव्याः । शिशुम् । मृजन्ति । आयवः । न । वासे

5.43.15

बृहत् । वयः । बृहते । तुभ्यम् । अग्ने । धियाजुरः । मिथुनासः । सचन्त । देवः-देवः । सु-हवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुः-मतौ । धात्

5.43.16

उरौ । देवाः । अनि-बाधे । स्याम

5.43.17

सम् । अश्विनोः । अवसा । नूतनेन । मयः-भुवा । सु-प्रनीती । गमेम । आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc