भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.42

5.42.1

॥16॥.
-र्व्_4:2।17-
(र्व्_5,42)
प्र । शम्-तमा । वरुणम् । दीधिती । गीः । मित्रम् । भगम् । अदितिम् । नूनम् । अश्याः । पृषत्-योनिः । पञ्च-होता । शृणोतु । अतूर्त-पन्थाः । असुरः । मयः-भुः

5.42.2

प्रति । मे । स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सु-शेवम् । ब्रह्म । प्रियम् । देव-हितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयः-भुः

5.42.3

उत् । ईरय । कवि-तमम् । कवीनाम् । उनत्त । एनम् । अभि । मध्वा । घृतेन । सः । नः । वसूनि । प्र-यता । हितानि । चन्द्राणि । देवः । सविता । सुवाति

5.42.4

सम् । इन्द्र । णः । मनसा । नेषि । गोभिः । सम् । सूरि-भिः । हरि-वः । सम् । स्वस्ति । सम् । ब्रह्मणा । देव-हितम् । यत् । अस्ति । सम् । देवानाम् । सु-मत्या । यज्ञ् इयानाम्

5.42.5

देवः । भगः । सविता । रायः । अंशः । इन्द्रः । वृत्रस्य । सम्-जितः । धनानाम् । ऋभुक्षाः । वाजः । उत । वा । पुरम्-धिः । अवन्तु । नः । अमृतासः । तुरासः

5.42.6

॥17॥.
-र्व्_4:2।18-
मरुत्वतः । अप्रति-इतस्य । जिष्णोः । अजूर्यतः । प्र । ब्रवाम । कृतानि । न । ते । पूर्वे । मघ-वन् । न । अपरासः । न । वीर्यम् । नूतनः । कः । चन । आप

5.42.7

उप । स्तुहि । प्रथमम् । रत्न-धेयम् । बृहस्पतिम् । सनितारम् । धनानाम् । यः । शंसते । स्तुवते । शम्-भविष्ठः । पुरु-वसुः । आगमत् । जोहुवानम्

5.42.8

तव । ऊति-भिः । सचमानाः । अरिष्टाः । बृहस्पते । मघ-वानः । सु-वीराः । ये । अश्व-दाः । उत । वा । सन्ति । गो--दाः । ये । वस्त्र-दाः । सु-भगाः । तेषु । रायः

5.42.9

वि-सर्माणम् । कृणुहि । वित्तम् । एषाम् । ये । भुञ्जते । अपृणन्तः । नः । उक्थैः । अप-व्रतान् । प्र-सवे । ववृधानान् । ब्रह्म-द्विषः । सूर्यात् । यवयस्व

5.42.10

यः । ओहते । रक्षसः । देव-वीतौ । अचक्रेभिः । तम् । मरुतः । नि । यात । यः । वः । समीम् । शशमानस्य । निन्दात् । तुच्छ्यान् । कामान् । करते । सिस्विदानः

5.42.11

॥18॥.
-र्व्_4:2।19-
तम् । ओं इति । स्तुहि । यः । सु-इषुः । सु-धन्वा । यः । विश्वस्य । क्षयति । भेषजस्य । यक्ष्व । महे । सौमनसाय । रुद्रम् । नमः-भिः । देवम् । असुरम् । दुवस्य

5.42.12

दमूनसः । अपसः । ये । सु-हस्ताः । वृष्णः । पत्नीः । नद्यः । विभ्व-तष्टाः । सरस्वती । बृहत्-दिवा । उत । राका । दशस्यन्तीः । वरिवस्यन्तु । शुभ्राः

5.42.13

प्र । सु । महे । सुशरणाय । मेधाम् । गिरम् । भरे । नव्यसीम् । जायमानाम् । यः । आहनाः । दुहितुः । वक्षणासु । रूपा । मिनानः । अकृणोत् । इदम् । नः

5.42.14

प्र । सुष्टुतिः स्तनयन्तं रुवन्तम् इळस् पतिञ् जरितर् नूनम् अश्याः । यो अब्दिमांम् इयर्तिप्र विद्युता रोदसी उक्षमाणः

5.42.15

एषः । स्तोमः । मारुतम् । शर्धः । अच्छ । रुद्रस्य । सूनून् । युवन्यून् । उत् । अश्याः । कामः । राये । हवते । मा । स्वस्ति । उप । स्तुहि । पृषत्-अश्वान् । अयासः

5.42.16

प्र । एषः । स्तोमः । पृथिवीम् । अन्तरिक्षम् । वनस्पतीन् । ओषधीः । राये । अश्याः । देवः-देवः । सु-हवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुः-मतौ । धात्

5.42.17

उरौ । देवाः । अनि-बाधे । स्याम

5.42.18

सम् । अश्विनोः । अवसा । नूतनेन । मयः-भुवा । सु-प्रनीती । गमेम । आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc