भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.41

5.41.1

॥12॥.
-र्व्_4:2।13-
(र्व्_5,41)
कः । नु । वाम् । मित्रावरुणौ । ऋत-यन् । दिवः । वा । महः । पार्थिवस्य । वा । दे । ऋतस्य । वा । सदसि । त्रासीथाम् । नः । यज्ञ-यते । वा । पशु-सः । न । वाजान्

5.41.2

ते । नः । मित्रः । वरुणः । अर्यमा । आयुः । इन्द्रः । ऋभुक्षाः । मरुतः । जुषन्त । नमः-भिः । वा । ये । दधते । सु-वृक्तिम् । स्तोमम् । रुद्राय । मीळ्हुषे । स-जोषाः

5.41.3

आ । वाम् । येष्ठा । अश्विना । हुवध्यै । वातस्य । पत्मन् । रथ्यस्य । पुष्टौ । उत । वा । दिवः । असुराय । मन्म । प्र । अन्धांसि-इव । यज्यवे । भरध्वम्

5.41.4

प्र । सक्षणः । दिव्यः । कण्व-होता । त्रितः । दिवः । स-जोषाः । वातः । अग्निः । पूषा । भगः । प्र-भृथे । विश्व-भोजाः । आजिम् । न । जग्मुः । आश्वश्व-तमाः

5.41.5

प्र । वः । रयिम् । युक्त-अश्वम् । भरध्वम् । रायः । एषे । अवसे । दधीत । धीः । सु-शेवः । एवैः । औशिजस्य । होता । ये । वः । एवाः । मरुतः । तुराणाम्

5.41.6

॥13॥.
-र्व्_4:2।14-
प्र । वः । वायुम् । रथ-युजम् । कृणुध्वम् । प्र । देवम् । विप्रम् । पनितारम् । अर्कैः । इषुध्यवः । ऋत-सापः । पुरम्-धीः । वस्वीः । नः । अत्र । पत्नीः । आ । धिये । धुरितिधुः

5.41.7

उप । वः । एषे । वन्द्येभिः । शूषैः । प्र । यह्वी इति । दिवः । चितयत्-भिः । अर्कैः । उषसानक्ता । विदुषीइवेतिविदुषी-इव । विश्वम् । आ । ह । वहतः । मर्त्याय । यज्ञम्

5.41.8

अभि । वः । अर्चे । पोष्यावतः । नॄन् । वास्तोः । पतिम् । त्वष्टारम् । रराणः । धन्या । स-जोषाः । धिषणा । नमः-भिः । वनस्पतीन् । ओषधीः । रायः । एषे

5.41.9

तुजे । नः । तने । पर्वताः । सन्तु । स्व-एतवः । ये । वसवः । न । वीराः । पनितः । आप्त्यः । यजतः । सदा । नः । वर्धात् । नः । शंसम् । नर्यः । अभिष्टौ

5.41.10

वृष्णः । अस्तोषि । भूम्यस्य । गर्भम् । त्रितः । नपातम् । अपाम् । सु-वृक्ति । गृणीते । अग्निः । एतरि । न । शूषैः । शोचिः-केशः । नि । रिणाति । वना

5.41.11

॥14॥.
-र्व्_4:2।15-
कथा । महे । रुद्रियाय । ब्रवाम । कत् । राये । चिकितुषे । भगाय । आपः । ओषधीः । उत । नः । अवन्तु । द्यौः । वना । गिरयः । वृक्ष-केशाः

5.41.12

शृणोतु । नः । ऊर्जाम् । पतिः । गिरः । सः । नभः । तरीयान् । इषिरः । परि-ज्मा । शृण्वन्तु । आपः । पुरः । न । शुभ्राः । परि । स्रुचः । बबृहाणस्य । अद्रेः

5.41.13

विद । चित् । नु । महान्तः । ये । वः । एवाः । ब्रवाम । दस्माः । वार्यम् । दधानाः । वयः । चन । सु-भ्वः । आ । अव । यन्ति । क्षुभा । मर्तम् । अनु-यतम् । वध-स्नैः

5.41.14

आ । दैव्यानि । पार्थिवानि । जन्म । अपः । च । अच्छ । सु-मखाय । वोचम् । वर्धन्ताम् । द्यावः । गिरः । चन्द्र-अग्राः । उदा । वर्धन्ताम् । अभि-साताः । अर्णाः

5.41.15

पदे--पदे । मे । जरिमा । नि । धायि । वरूत्री । वा । शक्रा । या । पायु-भिः । च । सिसक्तु । माता । मही । रसा । नः । स्मत् । सूरि-भिः । ऋजु-हस्ता । ऋजु-वनिः

5.41.16

॥15॥.
-र्व्_4:2।16-
कथा । दाशेम । नमसा । सु-दानून् । एव-या । मरुतः । अच्छ-उक्तौ । प्र-श्रवसः । मरुतः । अच्छ-उक्तौ । मा । नः । अहिः । बुध्न्यः । रिषे । धात् । अस्माकम् । भूत् । उपमाति-वनिः

5.41.17

इति । चित् । नु । प्र-जायै । पशु-मत्यै । देवासः । वनते । मर्त्यः । वः । आ । देवासः । वनते । मर्त्यः । वः । अत्र । शिवाम् । तन्वः । धासिम् । अस्याः । जराम् । च् इत् । मे । निः-ऋतिः । जग्रसीत

5.41.18

ताम् । वः । देवाः । सु-मतिम् । ऊर्जयन्तीम् । इषम् । अश्याम । वसवः । शसा । गोः । सा । नः । सु-दानुः । मृळयन्ती । देवी । प्रति । द्रवन्ती । सुविताय । गम्याः

5.41.19

अभि । नः । इळा । यूथस्य । माता । स्मत् । नदीभिः । उर्वशी । वा । गृणातु । उर्वशी । वा । बृहत्-दिवा । गृणना । अभि-ऊर्ण्वाना । प्र-भृथस्य । आयोः

5.41.20

सिसक्तु । नः । ऊर्जव्यस्य । पुष्टेः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc