ऋग्वेदसंहिता, पदपाठ · अध्याय 5.3
॥15॥.
-र्व्_3:8।16-
(र्व्_5,3)
त्वम् । अग्ने । वरुणः । जायसे । यत् । त्वम् । मित्रः । भवसि । यत् । सम्-इद्धः । त्वे । विश्वे । सहसः । पुत्र । देवाः । त्वम् । इन्द्रः । दाशुषे । मर्त्याय
त्वम् । अर्यमा । भवसि । यत् । कनीनाम् । नाम । स्वधावन् । गुह्यम् । बिभर्षि । अञ्जन्ति । मित्रम् । सु-धितम् । न । गोभिः । यत् । दम्पती इतिदम्-पती । स-मनसा । कृणोषि
तव । श्रिये । मरुतः । मर्जयन्त । रुद्र । यत् । ते । जनिम । चारु । चित्रम् । पदम् । यत् । विष्णोः । उप-मम् । नि-धायि । तेन । पासि । गुह्यम् । नाम । गोनाम्
तव । श्रिया । सु-दृशः । देव । देवाः । पुरु । दधानाः । अमृतम् । सपन्त । होतारम् । अग्निम् । मनुषः । नि । सेदुः । दशस्यन्तः । उशिजः । शंसम् । आयोः
न । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । न । काव्यैः । परः । अस्ति । स्वधावः । विशः । च । यस्याः । अतिथिः । भवासि । सः । यज्ञेन । वन-वत् । देव । मर्तान्
वयम् । अग्ने । वनुयाम । त्वाऊताः । वसु-यवः । हविषा । बुध्यमानाः । वयम् । स-मर्ये । विदथेषु । अह्नाम् । वयम् । राया । सहसः । पुत्र । मर्तान्
॥16॥.
-र्व्_3:8।17-
यः । नः । आगः । अभि । एनः । भराति । अधि । इत् । अघम् । अघ-शंसे । दधात । जहि । चिकित्वः । अभि-शस्तिम् । एताम् । अग्ने । यः । नः । मर्चयति । द्वयेन
त्वाम् । अस्याः । वि-उषि । देव । पूर्वे । दूतम् । कृण्वानाः । अयजन्त । हव्यैः । सम्-स्थे । यत् । आग्ने । ईयसे । रयीणाम् । देवः । मर्तैः । वसु-भिः । इध्यमानः
अव । स्पृधि । पितरम् । योधि । विद्वान् । पुत्रः । यः । ते । सहसः । सूनो इति । ऊहे । कदा । चिकित्वः । अभि । चक्षसे । नः । अग्ने । कदा । ऋत-चित् । यातयासे
भूरि । नाम । वन्दमानः । दधाति । पिता । वसो इति । यदि । तत् । जोषयासे । कुवित् । देवस्य । सहसा । चकानः । सुम्नम् । अग्निः । वनते । ववृधानः
त्वम् । अङ्ग । जरितारम् । यविष्ठ । विश्वानि । अग्ने । दुः-इता । अति । पर्षि । स्तेनाः । अदृश्रन् । रिपवः । जनासः । अज्ञात-केताः । वृजिनाः । अभूवन्
इमे । यामासः । त्वद्रिक् । अभूवन् । वसवे । वा । तत् । इत् । आगः । अवाचि । न । अह । अयम् । अग्निः । अभि-शस्तये । नः । न । रिषते । ववृधानः । परा । दात्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0