ऋग्वेदसंहिता, पदपाठ · अध्याय 5.37
॥7॥.
-र्व्_4:2।8-
(र्व्_5,37)
सम् । भानुना । यतते । सूर्यस्य । आजुह्वानः । घृत-पृष्ठः । सु-अञ्चाः । तस्मै । अमृध्राः । उषसः । वि । उच्छान् । यः । इन्द्राय । सुनवाम । इति । आह
समिद्ध-अग्निः । वनवत् । स्तीर्ण-बर्हिः । युक्त-ग्रावा । सुत-सोमः । जराते । ग्रावाणः । यस्य । इषिरम् । वदन्ति । अयत् । अध्वर्युः । हविषा । अव । सिन्धुम्
वधूः । इयम् । पतिम् । इच्छन्ती । एति । यः । ईम् । वहाते । महिषीम् । इषिराम् । आ । अस्य । श्रवस्यात् । रथः । आ । च । घोषात् । पुरु । सहस्रा । परि । वर्तयाते
न । सः । राजा । व्यथते । यस्मिन् । इन्द्रः । तीव्रम् । सोमम् । पिबति । गो--सखायम् । आ । सत्वनैः । अजति । हन्ति । वृत्रम् । क्षेति । क्षितीः । सु-भगः । नाम । पुष्यन्
पुष्यात् । क्षेमे । अभि । योगे । भवाति । उभे इति । वृतौ । संयती इतिसम्-यती । सम् । जयाति । प्रियः । सूर्ये । प्रियः । अग्ना । भवाति । यः । इन्द्राय । सुत-सोमः । ददाशत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0