भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.36

5.36.1

॥6॥.
-र्व्_4:2।7-
(र्व्_5,36)
सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् । धन्व-चरः । न । वंस-गः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम्

5.36.2

आ । ते । हनूइति । हरि-वः । शूर । शिप्रेइति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे । अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीः-भिः । मदेम । पुरु-हूत । विश्वे

5.36.3

चक्रम् । न । वृत्तम् । पुरु-हूत । वेपते । मनः । भिया । मे । अमतेः । इत् । अद्रि-वः । रथात् । अधि । त्वा । जरिता । सदावृध । कुवित् । नु । स्तोषम् । मघ-वन् । पुरु-वसुः

5.36.4

एषः । ग्रावाइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः । प्र । सेव्येन । मघ-वन् । यंसि । रायः । प्र । दक्षिणित् । हरि-वः । मा । वि । वेनः

5.36.5

वृषा । त्वा । वृषणम् । वर्धतु । द्यौः । वृषा । वृष-भ्याम् । वहसे । हरि-भ्याम् । सः । नः । वृषा । वृष-रथः । सु-शिप्र । वृषक्रतो इतिवृष-क्रतो । वृषा । वज्रिन् । भरे । धाः

5.36.6

यः । रोहितौ । वाजिनौ । वाजिनी-वान् । त्रि-भिः । शतैः । सचमानौ । अदिष्ट । यूने । सम् । अस्मै । क्षितयः । नमन्ताम् । श्रुत-रथाय । मरुतः । दुवः-या

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc