ऋग्वेदसंहिता, पदपाठ · अध्याय 5.38
॥8॥.
-र्व्_4:2।9-
(र्व्_5,38)
उरोः । ते । इन्द्र । राधसः । वि-भ्वी । रातिः । शतक्रतो इतिशत-क्रतो । अध । नः । विश्व-चर्षणे । द्युम्ना । सु-क्षत्र । मंहय
यत् । ईम् । इन्द्र । श्रवाय्यम् । इषम् । शविष्ठ । दधिषे । पप्रथे । दीर्घश्रुत्-तमम् । हिरण्य-वर्ण । दुस्तरम्
शुष्मासः । ये । ते । अद्रि-वः । मेहना । केत-सापः । उभा । देवौ । अभिष्टये । दिवः । च । ग्मः । च । राजथः
उतो इति । नः । अस्य । कस्य । चित् । दक्षस्य । तव । वृत्र-हन् । अस्मभ्यम् । नृम्णम् । आ । भार । अस्मभ्यम् । नृ-मनस्यसे
नु । ते । आभिः । अभिष्टि-भिः । तव । शर्मन् । शतक्रतो इतिशत-क्रतो । इन्द्र । स्याम । सु-गोपाः । शूर । स्याम । सु-गोपाः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0