ऋग्वेदसंहिता, पदपाठ · अध्याय 5.35
॥4॥.
-र्व्_4:2।5-
(र्व्_5,35)
यः । ते । साधिष्ठः । अवसे । इन्द्र । क्रतुः । टम् । आ । भर । अस्मभ्यम् । चर्षण् इ-सहम् । सस्निम् । वाजेषु । दुस्तरम्
यत् । इन्द्र । ते । चतस्रः । यत् । शूर । सन्ति । तिस्रः । यत् । वा । पञ्च । क्षितीनाम् । अवः । तत् । सु । नः । आ । भर
आ । ते । अवः । वरेण्यम् । वृषन्-तमस्य । हूमहे । वृष-जूतिः । हि । जज्ञिषे । आभूभिः । इन्द्र । तुर्वणिः
वृषा । हि । असि । राधसे । जज्ञिषे । वृष्णि । ते । शवः । स्व-क्षत्रम् । ते । धृषम् । मनः । सत्राहम् । इन्द्र । पैंस्यम्
त्वम् । तम् । इन्द्र । मर्त्यम् । अमित्र-यन्तम् । अद्रि-वः । सर्व-रथा । शतक्रतो इतिशत-क्रतो । नि । याहि । शवसः । पते
॥5॥.
-र्व्_4:2।6-
त्वाम् । इत् । वृत्रहन्-तम । जनासः । वृक्त-बर्हिषः । उग्रम् । पूर्वीषु । पूर्व्यम् । हवन्ते । वाज-सातये
अस्माकम् । इन्द्र । दुस्तरम् । पुरः-यावानम् । आजिषु । स-यावानम् । धने--धने । वाज-यन्तम् । अव । रथम्
अस्माकम् । इन्द्र । आ । इहि । नः । रथम् । अव । पुरम्-ध्या । वयम् । शविष्ठ । वार्यम् । दिवि । श्रवः । दधीमहि । दिवि । स्तोमम् । मनामहे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0