ऋग्वेदसंहिता, पदपाठ · अध्याय 5.34
॥2॥.
-र्व्_4:2।3-
(र्व्_5,34)
अजात-शत्रुम् । अजरा । स्वः-वती । अनु । स्वधा । अमिता । दस्मम् । ईयते । सुनोतन । पचत । ब्रह्म-वाहसे । पुरु-स्तुताय । प्र-तरम् । दधातन
आ । यः । सोमेन । जठरम् । अपिप्रत । अमन्दत । मघ-वा । मध्वः । अन्धसः । यत् । ईम् । मृगाय । हन्तवे । महावधः । सहस्र-भृष्टिम् । उशना । वधम् । यमत्
यः । अस्मै । घ्रंसे । उत । वा । यः । ऊधनि । सोमम् । सुनोति । भवति । द्यु-मान् । अह । अप-अप । सक्रः । ततनुष्टिम् । ऊहति । तनू-शुभ्रम् । मघ-वा । यः । कव-सखः
यस्य । अवधीत् । पितरम् । यस्य । मातरम् । यस्य । शक्रोअः । भ्रातरम् । न । अतः । ईषते । वेति । इत् । ओं इति । अस्य । प्र-यता । यतम्-करः । न । किल्बिषात् । ईषते । वस्वः । आकरः
न । पञ्च-भिः । दश-भिः । वष्टि । आरभम् । न । असुन्वता । सचते । पुष्यता । चन । जिनाति । वा । इत् । अमुया । हन्ति । वा । धुनिः । आ । देव-युम् । भजति । गो--मति । व्रजे
॥3॥.
-र्व्_4:2।4-
वि-त्वक्षणः । सम्-ऋतौ । चक्रम्-आसजः । असुन्वतः । विषुणः । सुन्वतः । वृधः । इन्द्रः । विश्वस्य । दमिता । वि-भीषणः । यथावशम् । नयति । दासम् । आर्यः
सम् । ईम् । पणेः । अजति । भोजनम् । मुषे । वि । दाशुषे । भजति । सूनरम् । वसु । दुः-गे । चन । ध्रियते । विश्वः । आ । पुरु । जनः । यः । अस्य । तविषीम् । अचुक्रुधत्
सम् । यत् । जनौ । सु-धनौ । विश्व-शर्धसौ । अवेत् । इन्द्रः । मघ-वा । गोषु । शुभ्रिषु । युजम् । हि । अन्यम् । अकृत । प्र-वेपनी । उत् । ईम् । गव्यम् । सृजते । सत्व-भिः । धुनिः
सहस्र-साम् । आग्नि-वेशिम् । गृणीषे । शत्रिम् । अग्ने । उप-माम् । केतुम् । अर्यः । तस्मै । आपः । सम्-यतः । पीपयन्त । तस्मिन् । क्षत्रम् । अम-वत् । त्वेषम् । अस्तु
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0