ऋग्वेदसंहिता, पदपाठ · अध्याय 5.33
॥33॥.
-र्व्_4:2।1-
(र्व्_5,33)
महि । महे । तवसे । दीध्ये । नॄन् । इन्द्राय । इत्था । तवसे । अतव्यान् । यः । अस्मै । सु-मतिम् । वाज-सातौ । स्तुतः । जने । स-मर्यः । चिकेत
सः । त्वम् । नः । इन्द्र । धियसानः । अर्कैः । हरीणाम् । वृषन् । योक्त्रम् । अश्रेः । याः । इत्था । मघ-वन् । अनु । जोषम् । वक्षः । अभि । प्र । अर्यः । सक्षि । जनान्
न । ते । ते । इन्द्र । अभि । अस्मत् । ऋष्व । अयुक्तासः । अब्रह्मता । यत् । असन् । ति ष्ठ । रथम् । अधि । तम् । वज्र-हस्त । आ । रश्मिम् । देव । यमसे । सु-अश्वः
पुरु । यत् । ते । इन्द्र । सन्ति । उक्था । गवे । चकर्थ । उर्वरासु । युध्यन् । ततक्षे । सूर्याय । चित् । ओकसि । स्वे । वृषा । समत्-सु । दासस्य । नाम । चित्
वयम् । ते । ते । इन्द्र । ये । च । नरः । शर्धः । जज्ञानाः । याताः । च । रथाः । आ । अस्मान् । जगम्यात् । अहि-शुष्म । सत्वा । भगः । न । हव्यः । प्र-भृथेषु । चारुः
॥1॥.
-र्व्_4:2।2-
पपृक्षेण्यम् । इन्द्र । त्वे इति । हि । ओजः । नृम्णानि । च । नृतमानः । अमर्तः । सः । नः । एनीम् । वसवानः । रयिम् । दाः । प्र । अर्यः । स्तुषे । तुवि-मघस्य । दानम्
एव । नः । इन्द्र । ऊति-भिः । अव । पाहि । गृणतः । शूर । करून् । उत । त्वचम् । ददतः । वाज-सातौ । पिप्रीहि । मध्वः । सु-सुतस्य । चारोः
उत । त्ये । मा । पौरु-कुतस्यस्य । सूरेः । त्रसदस्योः । हिरणिनः । रराणाः । वहन्तु । मा । दश । श्येतासः । अस्य । गैरि-क्षितस्य । क्रतु-भिः । नु । सश्चे
उत । त्ये । मा । मारुत-अश्वस्य । शोणाः । क्रत्वामघासः । विदथस्य । रातौ । सहस्रा । मे । च्यवतानः । ददानः । आनूकम् । अर्यः । वपुषे । न । आर्चत्
उत । त्ये । मा । ध्वन्यस्य । जुष्टाः । लक्ष्मण्यस्य । सु-रुचः । यतानाः । मह्ना । रायः । सम्-वरणस्य । ऋषेः । व्रजम् । न । गावः । प्र-यताः । अपि । ग्मन्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0