भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.32

5.32.1

॥31॥.
-र्व्_4:1।32-
(र्व्_5,32)
अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः । महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरितिवः । सृजः । वि । धाराः । अव । दानवम् । हन्नितिहन्

5.32.2

त्वम् । उत्सान् । ऋतु-भिः । बद्बधानान् । अरंहः । ऊधः । पर्वतस्य । वज्रि न् । अहिम् । चित् । उग्र । प्र-युतम् । शयानम् । जघन्वान् । इन्द्र । तविषीम् । अधत्थाः

5.32.3

त्यस्य । चित् । महतः । निः । मृगस्य । वधः । जघान । तविषीभिः । इन्द्रः । यः । एकः । इत् । अप्रतिः । मन्यमानः । आत् । अस्मात् । अन्यः । अजनिष्ट । तव्यान्

5.32.4

त्यम् । चित् । एषाम् । स्वधया । मदन्तम् । मिहः । नपातम् । सु-वृधम् । तमः-गाम् । वृष-प्रभर्मा । दानवस्य । भामम् । वज्रेण । वज्री । नि । जघान । शुष्णम्

5.32.5

त्यम् । चित् । अस्य । क्रतु-भिः । नि-सत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म । यत् । ईम् । सु-क्षत्र । प्र-भृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः

5.32.6

त्यम् । चित् । इत्था । कत्पयम् । शयानम् । असूर्ये । तमसि । ववृधानम् । तम् । चित् । मन्दानः । वृषभः । सुतस्य । उच्चैः । इन्द्रः । अप-गूर्य । जघान

5.32.7

॥32॥.
-र्व्_4:1।33-
उत् । यत् । इन्द्रः । महते । दानवाय । वधः । यमिष्ट । सहः । अप्रति-इतम् । यत् । ईम् । वज्रस्य । प्र-भृतौ । ददाभ । विश्वस्य । जन्तोः । अधमम् । चकार

5.32.8

त्यम् । चित् । अर्णम् । मधु-पम् । शयानम् । असिन्वम् । वव्रम् । महि । आदत् । उग्रः । अपादम् । अत्रम् । महता । वधेन । नि । दुर्योणे । अवृणक् । मृध्र-वाचम्

5.32.9

कः । अस्य । शुष्मम् । तविषीम् । वराते । एकः । धना । भरते । अप्रति-इतः । इमे । चित् । अस्य । ज्रयसः । नु । देवी इति । इन्द्रस्य । ओजसः । भियसा । जिहातेइति

5.32.10

नि । अस्मै । देवी । स्व-धितिः । जिहीते । इन्द्राय । गातुः । उशती-इव । येमे । सम् । यत् । ओजः । युवते । विश्वम् । आभिः । अनु । स्वधाव्ने । क्षितयः । नमन्त

5.32.11

एकम् । नु । त्वा । सत्-पतिम् । पाञ्च-जन्यम् । जातम् । शृणोमि । यशसम् । जनेषु । तम् । मे । जगृभ्रे । आशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम्

5.32.12

एव । हि । त्वाम् । ऋतु-था । यातयन्तम् । मघा । विप्रेभ्यः । ददतम् । शृणोमि । किम् । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाया । नि-दधुः । कामम् । इन्द्र

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc