ऋग्वेदसंहिता, पदपाठ · अध्याय 5.31
॥28॥.
-र्व्_4:1।29-
(र्व्_5,31)
इन्द्रः । रथाय । प्र-वतम् । कृणोति । यम् । अधि-अस्थात् । मघ-वा । व्ज-यन्तम् । यूथाइव । पश्वः । वि । उनोति । गोपाः । अरिष्टः । याति । प्रथमः । सिसासन्
आ । प्र । द्रव । हरि-वः । मा । वि । वेनः । पिशङ्ग-राते । अभि । नः । सचस्व । नहि । त्वत् । इन्द्र वस्यः । अन्यत् । अस्ति । अमेमान् । चित् । जनि-वतः । चकर्थ
उत् । यत् । सहः । सहसः । आ । अजनिष्ट । देदिष्टे । इन्द्रः । इन्द्रियाणि । विश्वा । प्र । अचोदयत् । सु-दुघाः । वव्रे । अन्तः । वि । ज्योतिषा । सम्-ववृत्वत् । तमः । अवर् इत्य् अवः
अनवः । ते । रथम् । अश्वाय । तक्षन् । त्वष्टा । वज्रम् । पुरु-हूत । द्यु-मन्तम् । ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । ओं इति
वृष्णे । यत् । ते । वृषणः । अर्कम् । अर्चान् । इन्द्र । ग्रावाणः । अदितिः । स-जोषाः । अनश्वासः । ये । पवयः । अरथाः । इन्द्र-इषिताः । अभि । अवर्तन्त । दस्यून्
॥29॥.
-र्व्_4:1।30-
प्र । ते । पूर्वाणि । करणानि । वोचम् । प्र । नूतना । मघ-वन् । या । चकर्थ । शक्त् इ-वः । यत् । वि-भराः । रोदसी इति । उभे इति । जयन् । अपः । मनवे । दानु-चित्राः
तत् । इत् । नु । ते । करणम् । दस्म । विप्र । अहिम् । यत् । घ्नन् । ओजः । अत्र । अभिमीथाः । शुष्णस्य । चित् । परि । मायाः । अगृभ्णाः । प्र-पित्वम् । यन् । अप । दस्यून् । असेधः
त्वम् । अपः । यदवे । तुर्वशाय । अरमयः । सु-दुघाः । पारः । इन्द्र । उग्रम् । अयातम् । अवहः । ह । कुत्सम् । सम् । ह । यत् । वाम् । उशना । अरन्त । देवाः
इन्द्राकुत्सा । वहमाना । रथेन । आ । वाम् । अत्याः । अपि । कर्णे । वहन्तु । निः । सीम् । अत्-भ्यः । धमथः । निः । सध-स्थात् । मघोनः । हृदः । वरथः । तमांसि
वातस्य । युक्तान् । सु-युजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः । विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन्
॥30॥.
-र्व्_4:1।31-
सूरः । चित् । रथम् । परि-तक्म्यायाम् । पूर्वम् । करत् । उपरम् । जूजु-वांसम् । भरत् । चक्रम् । एतशः । सम् । रिणाति । पुरः । दधत् । सनिष्यति । क्रतुम् । नः
आ । अयम् । जनाः । अभि-चक्षे । जगाम । इन्द्रः । सखायम् । सुत-सोमम् । इच्छन् । वदन् । ग्रावा । अव । वेदिम् । भ्रियाते । यस्य । जीरम् । अध्वर्यवः । चरन्ति
ये । चाकनन्त । चाकनन्त । नु । ते । मर्ताः । अमृत । मो इति । ते । अंहः । आ । अरन् । ववन्धि । यज्यून् । उत । तेषु । धेहि । ओजः । जनेषु । येषु । ते । स्याम
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0