भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.30

5.30.1

॥25॥.
-र्व्_4:1।26-
(र्व्_5,30)
क्व । स्यः । वीरः । कः । अपश्यत् । इन्द्रम् । सुख-रथम् । ईयमानम् । हरि-भ्याम् । यः । राया । वज्री । सुत-सोमम् । इच्छन् । तत् । ओकः । गन्ता । पुरु-हूतः । ऊती

5.30.2

अव । अचचक्षम् । पदम् । अस्य । सस्वः । उग्रम् । नि-धातुः । अनु । आयम् । इच्छन् । अपृच्छम् । अन्यान् । उत । ते । मे । आहुः । इन्द्रम् । नरः । बुबुधानाः । अशेम

5.30.3

प्र । नु । वयम् । सुते । या । ते । कृतानि । इन्द्र । ब्रवाम । यानि । नः । जुजोषः । वेदत् । अविद्वान् । शृणवत् । च । विद्वान् । वहते । अयम् । मघ-वा । सर्व-सेनः

5.30.4

स्थिरम् । मनः । चकृषे । जातः । इन्द्र । वेषि । इत् । एकः । युधये । भूयसः । चित् । अश्मानम् । चित् । शवसा । दिद्युतः । वि । विदः । गवाम् । ऊर्वम् । उस्रियाणाम्

5.30.5

परः । यत् । त्वम् । परमः । आजनिष्ठाः । परावति । श्रुत्यम् । नाम । बिभ्रत् । अतः । चित् । इन्द्रात् । अभयन्त । देवाः । विश्वाः । अपः । अजयत् । दास-पत्नीः

5.30.6

॥26॥.
-र्व्_4:1।27-
तुभ्य । इत् । एते । मरुतः । सु-शेवाः । अर्चन्ति । अर्कम् । सुन्वन्ति । अन्धः । अहिम् । ओहानम् । अप । आशयानम् । प्र । मायाभिः । मायिनम् । सक्षत् । इन्द्रः

5.30.7

वि । सु । मृधः । जनुषा । दानम् । इन्वन् । अहन् । गवा । मघ-वन् । सम्-चकानः । अत्र । दासस्य । नमुचेः । शिरः । यत् । अवर्तयः । मनवे । गातुम् । इच्छन्

5.30.8

युजम् । हि । माम् । अकृथाः । आत् । इत् । इन्द्र । शिरः । दासस्य । नमुचेः । मथायन् । अश्मानम् । चित् । स्वर्यम् । वर्तमानम् । प्र । चक्रियाइव । रोदसी इति । मरुत्-भ्यः

5.30.9

स्त्रियः । हि । दासः । आयुधानि । चक्रे । किम् । मा । करन् । अबलाः । अस्य । सेनाः । अन्तः । हि । अख्यत् । उभे इति । अस्य । धेनेइति । अथ । उप । प्र । ऐत् । युधये । दस्युम् । इन्द्रः

5.30.10

सम् । अत्र । गावः । अभितः । अनवन्त । इह-इह । वत्सैः । वि-युताः । यत् । आसन् । सम् । ताः । इन्द्रः । असृजत् । अस्य । शाकैः । यत् । ईम् । सोमासः । सु-सुताः । अमन्दन्

5.30.11

॥27॥.
-र्व्_4:1।28-
यत् । ईम् । सोमाः । बभ्रु-धूताः । अमन्दन् । अरोरवीत् । वृषभः । सादनेषु । पुरम्-दरः । पपि-वान् । इन्द्रः । अस्य । पुनः । गवाम् । अददात् । उस्रियाणाम्

5.30.12

भद्रम् । इदम् । रुशमाः । अग्ने । अक्रन् । गवाम् । चत्वारि । ददतः । सहस्रा । ऋणम्-चयस्य । प्र-यता । मघानि । प्रति । अग्रभीष्म । नृ-तमस्य । नृणाम्

5.30.13

सु-पेशसम् । मा । अव । सृजन्ति । अस्तम् । गवाम् । सहस्रैः । रुशमासः । अग्ने । तीव्राः । इन्द्रम् । अममन्दुः । सुतासः । अक्तोः । वि-उष्टौ । परि-तक्म्यायाः

5.30.14

औच्छत् । सा । रात्री । परि-तक्म्या । या । ऋणम्-चये । राजनि । रुशमानाम् । अत्यः । न । वाजी । रघुः । अज्यमानः । बभ्रुः । चत्वारि । असनत् । सहस्रा

5.30.15

चतुः-सहस्रम् । गव्यस्य । पश्वः । प्रति । अग्रभीष्म । रुशमेषु । अग्ने । घर्मः । चित् । तप्तः । प्र-वृजे । यः । आसीत् । अयस्मयः । तम् । ओं इति । आदाम । विप्राः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc