भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.29

5.29.1

॥22॥.
-र्व्_4:1।23-
(र्व्_5,29)
त्री । अर्यमा । मनुषः । देव-ताता । त्री । रोचना । दिव्या । धारयन्त । अर्चन्ति । त्वा । मरुतः । पूत-दक्षाः । त्वम् । एषाम् । ऋषिः । इन्द्र । असि । धीरः

5.29.2

अनु । यत् । ईम् । मरुतः । मन्दसानम् । आर्चन् । इन्द्रम् । पपि-वांसम् । सुतस्य । आ । अदत्त । वज्रम् । अभि । यत् । अहिम् । हन् । अपः । यह्वीः । असृजत् । सर्तवै । ओं इति

5.29.3

उत । ब्रह्माणः । मरुतः । मे । अस्य । इन्द्रः । सोमस्य । सु-सुतस्य । पेयाः । तत् । हि । हव्यम् । मनुषे । गाः । अविन्दत् । अहन् । अहिम् । पपि-वान् । इन्द्रः । अस्य

5.29.4

आत् । रोदसी इति । वि-तरम् । वि । स्कभायत् । सम्-विव्यानः । चित् । भयसे । मृगम् । करितिकः । जिगर्तिम् । इन्द्रः । अप-जर्गुराणः । प्रति । श्वसन्तम् । अव । दानवम् । हन्नितिहन्

5.29.5

अध । क्रत्वा । मघ-वन् । तुभ्यम् । देवाः । अनु । विश्वे । अददुः । सोम-पेयम् । यत् । सूर्यस्य । हरितः । पतन्तीः । पुरः । सतीः । उपराः । एतशे । करितिकः

5.29.6

॥23॥.
-र्व्_4:1।24-
नव । यत् । अस्य । नवतिम् । च । भोगान् । साकम् । वज्रेण । मघ-वा । विवृश्चत् । अर्चन्ति । इन्द्रम् । मरुतः । सध-स्थे । त्रैस्तुभेन । वचसा । बाधत । द्याम्

5.29.7

सखा । सख्ये । अपचत् । तूयम् । अग्निः । अस्य । क्रत्वा । महिषा । त्री । शतानि । त्री । साकम् । इन्द्रः । मनुषः । सरांसि । सुतम् । पिबत् । वृत्र-हत्याय । सोमम्

5.29.8

त्री । यत् । शता । महिषाणाम् । अघः । माः । त्री । सरांसि । मघ-वा । सोम्या । अपाः । कारम् । न । विश्वे । अह्वन्त । देवाः । भरम् । इन्द्राय । यत् । अहिम् । जघान

5.29.9

उशना । यत् । सहस्यैः । अयातम् । गृहम् । इन्द्र । जूजुवानेभिः । अश्वैः । वन्वानः । अत्र । सरथम् । ययाथ । कुत्सेन । देवैः । अवनोः । ह । शुष्णम्

5.29.10

प्र । अन्यत् । चक्रम् । अवृहः । सूर्यस्य । कुत्साय । अन्यत् । वरिवः । यातवे । अकर् इत्य् अकः । अनासः । दस्यून् । अमृणः । वधेन । नि । दुर्योणे । अवृणक् । मृध्र-वाचः

5.29.11

॥24॥.
-र्व्_4:1।25-
स्तोमासः । त्वा । गौरि-वीतेः । अवर्धन् । अरन्धयः । वैदथिनाय । पिप्रुम् । आ । त्वाम् । ऋजिश्वा । सख्याय । चक्रे । पचन् । पक्तीः । अपिबः । सोमम् । अस्य

5.29.12

नव-ग्वासः । सुत-साओमासः । इन्द्रम् । दश-ग्वासः । अभि । अर्चन्ति । अर्कैः । गव्यम् । चित् । ऊर्वम् । अपिधान-वन्तम् । तम् । चित् । नरः । शशमानाः । अप । व्रन्

5.29.13

कथो इति । नु । ते । परि । चराणि । विद्वान् । वीर्या । मघ-वन् । या । चकर्थ । या । चो इति । नु । नव्या । कृणवः । शविष्ठ । प्र । इत् । ओं इति । ता । ते । विदथेषु । ब्रवाम

5.29.14

एता । विश्वा । चकृ-वान् । इन्द्र । भूरि । अपरि-इतः । जनुषा । वीर्येण । या । चित् । नु । वज्रिन् । कृणवः । दधृष्वान् । न । ते । वर्ता । तविष्याः । अस्ति । तस्याः

5.29.15

इन्द्र । ब्रह्म । क्रियमाणा । जुषस्व । या । ते । शविष्ठ । नव्याः । अकर्म । वस्त्राइव । भद्रा । सु-कृता । वसु-युः । रथम् । न । धीरः । सु-अपाः । अतक्षम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc