भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.2

5.2.1

॥13॥.
-र्व्_3:8।14-
(र्व्_5,2)
कुमारम् । माता । युवतिः । सम्-उब्धम् । गुहा । बिभर्ति । न । ददाति । पित्रे । अनीकम् । अस्य । न । मिनत् । जनासः । पुरः । पश्यन्ति । नि-हितम् । अरतौ

5.2.2

कम् । एतम् । त्वम् । युवते । कुमारम् । पेषी । बिभर्षि । महिषी । जजान । पूर्वीः । ह् इ । गर्भः । शरदः । ववर्ध । अपश्यम् । जातम् । यत् । असूत । माता

5.2.3

हिरण्य-दन्तम् । शुचि-वर्णम् । आरात् । क्षेत्रात् । अपश्यम् । आयुधा । मिमानम् । ददानः । अस्मै । अमृतम् । विपृक्वत् । किम् । माम् । अनिन्द्राः । कृणवन् । अनुक्थाः

5.2.4

क्षेत्रात् । अपश्यम् । सनुतरिति । चरन्तम् । सु-मत् । यूथम् । न । पुरु । शोभमानम् । न । ताः । अगृभ्रन् । अजनिष्ट । हि । सः । पलिक्नीः । इत् । युवतयः । भवन्ति

5.2.5

के । मे । मर्यकम् । वि । यवन्त । गोभिः । न । येषाम् । गोपाः । अरणः । चित् । आस । ये । ईम् । जगृभुः । अव । ते । सृजन्तु । आ । अजाति । पश्वः । उप । नः । चिकित्वान्

5.2.6

वसाम् । राजानम् । वसतिम् । जनानाम् । अरातयः । नि । दधुः । मर्त्येषु । ब्रह्माणि । अत्रेः । अव । तम् । सृजन्तु । निन्दितारः । निन्द्यासः । भवन्तु

5.2.7

॥14॥.
-र्व्_3:8।15-
शुनः-शेपम् । चित् । नि-दितम् । सहस्रात् । यूपात् । अमुञ्चः । अशमिष्ट । हि । सः । एव । अस्मत् । अग्ने । वि । मुमुग्धि । पासान् । होतरिति । चिकित्वः । इह । तु । नि-सद्य

5.2.8

हृणीयमानः । अप । हि । मत् । ऐये । प्र । मे । देवानाम् । व्रत-पाः । उवाच । इन्द्रः । विद्वान् । अनु । हि । त्वा । चचक्ष । तेन । अहम् । अग्ने । अनु-शिष्टः । आ । अगाम्

5.2.9

वि । ज्योतिषा । बृहता । भाति । अग्निः । आविः । विश्वानि । कृणुते । महि-त्वा । प्र । अदेवीः । मायाः । सहते । दुः-एवाः । शिशीते । शृङ्गेइति । रक्षसे । वि-निक्षे

5.2.10

उत । खानासः । दिवि । सन्तु । अग्नेः । तिग्म-आयुधाः । रक्षसे । हन्तवै । ओं इति । मदे । चित् । अस्य । प्र । रुजन्ति । भामाः । न । वरन्ते । परि-बाधः । अदेवीः

5.2.11

एतम् । ते । स्तोमम् । तुवि-जात । विप्रः । रथम् । न । धीरः । सु-अपाः । अतक्षम् । यदि । इत् । अग्ने । प्रति । त्वम् । देव । हर्याः । स्वः-वतीः । अपः । एन । जयेम

5.2.12

तुवि-ग्रीवः । वृषभः । ववृधानः । अशत्रु । अर्यः । सम् । अजाति । वेदः । इति । इमम् । अग्निम् । अमृताः । अवोचन् । बर्हिष्मते । मनवे । शर्म । यंसत् । हवि ष्मते । मनवे । शर्म । यंसत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc