भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.28

5.28.1

॥21॥.
-र्व्_4:1।22-
(र्व्_5,28)
सम्-इद्धः । अग्निः । दिवि । शोचिः । अश्रेत् । प्रत्यङ् । उषसम् । उर्विया । वि । भाति । एति । प्राची । विश्व-वारा । नमः-भिः । देवान् । ईळाना । हविषा । घृताची

5.28.2

सम्-इध्यमानः । अमृतस्य । राजसि । हविः । कृण्वन्तम् । सचसे । स्वस्तये । विश्वम् । सः । धत्ते । द्रविणम् । यम् । इन्वसि । आतिथ्यम् । अग्ने । नि । च । धत्ते । इत् । पुरः

5.28.3

अग्ने । शर्ध । महते । सौभगाय । तव । द्युम्नानि । उत्-तमानि । सन्तु । सम् । जः-पत्यम् । सु-यमम् । आ । कृणुष्व । शत्रु-यताम् । अभि । तिष्ठ । महांसि

5.28.4

सम्-इद्धस्य । प्र-महसः । अग्ने । वन्दे । तव । श्रियम् । वृषभः । द्युम्न-वान् । असि । सम् । अध्वरेषु । इध्यसे

5.28.5

सम्-इद्धः । अग्ने । आहुत । देवान् । यक्षि । सु-अध्वर । त्वम् । हि । हव्य-वाट् । असि

5.28.6

आ । जुहोत । दुवस्यत । अग्निम् । प्र-यति । अध्वरे । वृणीध्वम् । हव्य-वाहनम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc