ऋग्वेदसंहिता, पदपाठ · अध्याय 5.27
॥20॥.
-र्व्_4:1।21-
(र्व्_5,27)
अनस्वन्ता । सत्-पतिः । ममहे । मे । गावा । चेतिष्ठः । असुरः । मघोनः । त्रैवृष्णः । अग्ने । दश-भिः । सहस्रैः । वैश्वानर । त्रि-अरुणः । चिकेत
यः । मे । शता । च । विंशतिम् । च । गोनाम् । हरी इति । च । युक्ता । सु-धुरा । ददाति । वैश्वानर । सु-स्तुतः । ववृधानः । अग्ने । यच्छ । त्रि-अरुणाय । शर्म
एव । ते । अग्ने । सु-मतिम् । चकानः । नविष्ठाय । नवमम् । त्रसदस्युः । यः । मे । गिरः । तुविजातस्य । पूर्वीः । युक्तेन । अभि । त्रि-अरुणः । गृणाति
यः । मे । इति । प्र-वोचति । अश्व-मेधाय । सूरये । ददत् । ऋचा । सनिम् । यते । ददत् । मेधाम् । ऋत-यते
यस्य । मा । परुषाः । शतम् । उत्-हर्षयन्ति । उक्षणः । अश्व-मेधस्य । दानाः । सोमाः-इव । त्रि-आशिरः
इन्द्राग्नी इति । शत-दाव्नि । अश्व-मेधे । सु-वीर्यम् । क्षत्रम् । धारयतम् । बृहत् । दिवि । सूर्यम्-इव । अजरम्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0