भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.1

5.1.1

॥11॥.
मन्दल 5
-र्व्_3:8।12-
(र्व्_5,1)
अबोधि । अग्निः । सम्-इधा । जनानाम् । प्रति । धेनुम्-इव । आयतीम् । उषसम् । यह्वाः-इव । प्र । वयाम् । उत्-जिहानाः । प्र । भानवः । सिस्रते । नाकम् । अच्छ

5.1.2

अबोधि । होता । यजथाय । देवान् । ऊर्ध्वः । अग्निः । सु-मनाः । प्रातः । अस्थात् । सम्-इद्धस्य । रुशत् । अदर्शि । पाजः । महान् । देवः । तमसः । निः । अमोचि

5.1.3

यत् । ईम् । गणस्य । रशनाम् । अजीगरिति । शुचिः । अङ्क्ते । शुचि-भिः । गो--भिः । अग्निः । आत् । दक्षिणा । युज्यते । वाज-यन्ती । उत्तानाम् । ऊर्ध्वः । अधयत् । जुहूभिः

5.1.4

अग्निम् । अच्छ । देव-यताम् । मनांसि । चक्षूंषी-इव । सूर्ये । सम् । चरन्ति । यत् । ईम् । सुवाते । उषसा । विरूपेइतिवि-रूपे । श्वेतः । वाजी । जायते । अग्रे । अह्नाम्

5.1.5

जनिष्ट । हि । जेन्यः । अग्रे । अह्नाम् । हितः । हितेषु । अरुषः । वनेषु । दमे--दमे । सप्त । रत्ना । दधानः । अग्निः । होता । नि । ससाद । यजीयान्

5.1.6

अग्निः । होता । नि । असीदत् । यजीयान् । उप-स्थे । मातुः । सुरभौ । ओं इति । लोके । युवा । कविः । पुरुनिः-ष्ठः । ऋत-वा । धर्ता । कृष्टीनाम् । उत । मध्ये । इद्धः

5.1.7

॥12॥.
-र्व्_3:8।13-
प्र । नु । त्यम् । विप्रम् । अध्वरेषु । साधुम् । अग्निम् । होतारम् । ईळते । नमः-भि ः । आ । यः । ततान । रोदसी इति । ऋतेन । नित्यम् । मृजन्ति । वाजिनम् । घृतेन

5.1.8

मार्जाल्यः । मृज्यते । स्वे । दमूनाः । कवि-प्रशस्तः । अतिथिः । शिवः । नः । सहस्र-शृङ्गः । वृषभः । तत्-ओजा । विश्वान् । अग्ने । सहसा । प्र । असि । अन्यान्

5.1.9

प्र । सद्यः । अग्ने । अति । एषि । अन्यान् । आविः । यस्मै । चारु-तमः । बभूथ । ईळेन्यः । वपुष्यः । विभावा । प्रियः । विशाम् । अतिथिः । मानुषीणाम्

5.1.10

तुभ्यम् । भरन्ति । क्षितयः । यविष्ठ । बलिम् । अग्ने । अन्तितः । आ । उत । दूरात् । आ । भन्दिष्ठस्य । सु-मतिम् । चिकिद्धि । बृहत् । ते । अग्ने । महि । शर्म । भद्रम्

5.1.11

आ । अद्य । रथम् । भानु-मः । भानुम् । अन्तम् । अग्ने । तिष्ठ । यजतेभिः । सम्-अन्तम् । विद्वान् । पथीनाम् । उरु । अन्तरिक्षम् । आ । इह । देवान् । हविः-अद्याय । वक्षि

5.1.12

अवोचाम । कवये । मेध्याय । वचः । वन्दारु । वृषभाय । वृष्णे । गविष्ठिरः । नमसा । स्तोमम् । अग्नौ । दिवि-इव । रुक्मम् । उरु-व्यञ्चम् । अश्रेत्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc