ऋग्वेदसंहिता, पदपाठ · अध्याय 5.14
॥5॥.
-र्व्_4:1।6-
(र्व्_5,14)
अग्निम् । स्तोमेन । बोधय । सम्-इधानः । अमर्त्यम् । हव्या । देवेषु । नः । दधत्
तम् । अध्वरेषु । ईळते । देवम् । मर्ताः । अमर्त्यम् । यजिष्ठम् । मानुषे । जने
तम् । हि । शश्वन्तः । ईळते । स्रुचा । देवम् । घृत-श्चुता । अग्निम् । हव्याय । वोळ्हवे
अग्निः । जातः । अरोचत । घ्नन् । दस्यून् । ज्योतिषा । तमः । अविन्दत् । गाः । अपः । स्वः
अग्निम् । ईळेन्यम् । कविम् । घृत-पृष्ठम् । सपर्यत । वेतु । मे । षृणवत् । हवम्
अग्निम् । घृतेन । ववृधुः । स्तोमेभिः । विश्व-चर्षणिम् । सु-आधीभिः । वचस्यु-भिः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0