ऋग्वेदसंहिता, पदपाठ · अध्याय 5.15
॥6॥.
-र्व्_4:1।7-
(र्व्_5,15)
प्र । वेधसे । कवये । वेद्याय । गिरम् । भरे । यशसे । पूर्व्याय । घृत-प्रसत्तः । असुरः । सु-शेवः । रायः । धर्ता । धरुणः । वस्वः । अग्निः
ऋतेन । ऋतम् । धरुणम् । धारयन्त । यज्ञस्य । शोके । परमे । वि-ओमन् । दिवः । धर्मन् । धरुणे । सेदुषः । नॄन् । जातैः । अजातान् । अभि । ये । ननक्षुः
अंहः-युवः । तन्वः । तन्वते । वि । वयः । महत् । दुस्तरम् । पूर्व्याय । सः । सम्-वतः । नव-जातः । तुतुर्यात् । सिंहम् । न । क्रुद्धम् । अभितः । परि । स्थुः
माताइव । यत् । भरसे । पप्रथानः । जनम्-जनम् । धायसे । चक्षसे । च । वयः-वयः । जरसे । यत् । दधानः । परि । त्मना । विषु-रूपः । जिगासि
वाजः । नु । ते । शवसः । पातु । अन्तम् । उरुम् । दोघम् । धरुणम् । देव । रायः । पदम् । न । तायुः । गुहा । दधानः । महः । राये । चितयन् । अत्रिम् । अस्पर् इत्य् अस्पः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0