ऋग्वेदसंहिता, पदपाठ · अध्याय 5.13
॥4॥.
-र्व्_4:1।5-
(र्व्_5,13)
अर्चन्तः । त्वा । हवामहे । अर्चन्तः । सम् । इधीमहि । अग्ने । अर्चन्तः । ऊतये
अग्नेः । स्तोमम् । मनामहे । सिध्रम् । अद्य । दिवि-स्पृशः । देवस्य । द्रविणस्यवः
अग्निः । जुषत । नः । गिरः । होता । यः । मानुषेषु । आ । सः । यक्षत् । दैव्यम् । जनम्
त्वम् । अग्ने । स-प्रथाः । असि । जुष्टः । होता । वरेण्यः । त्वया । यज्ञम् । वि । तन्वते
त्वाम् । अग्ने । वाज-सातमम् । विप्राः । वर्धन्ति । सु-स्तुतम् । सः । नः । रास्व । सु-वीर्यम्
अग्ने । नेमिः । अरान्-इव । देवान् । त्वम् । परि-भूः । असि । आ । राधः । चित्रम् । ऋञ्जसे
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0