भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.12

5.12.1

॥3॥.
-र्व्_4:1।4-
(र्व्_5,12)
प्र । अग्नये । बृहते । यज्ञियाय । ऋतस्य । वृष्णे । असुराय । मन्म । घृतम् । न । यज्ञे । आस्ये । सु-पूतम् । गिरम् । भरे । वृषभाय । प्रतीचीम्

5.12.2

ऋतम् । चिकित्वः । ऋतम् । इत् । चिकिद्धि । ऋतस्य । धाराः । अनु । तृन्धि । पूर्वीः । न । अहम् । यातुम् । सहसा । न । द्वयेन । ऋतम् । सपामि । अरुषस्य । वृष्णः

5.12.3

कया । नः । अग्ने । ऋतयन् । ऋतेन । भुवः । नवेदाः । उचथस्य । नव्यः । वेद । मे । देवः । ऋतु-पाः । ऋतूनाम् । न । अहम् । पतिम् । सनितुः । अस्य । रायः

5.12.4

के । ते । अग्ने । रिपवे । बन्धनासः । के । पायवः । सनिषन्त । द्यु-मन्तः । के । धासिम् । अग्ने । अनृतस्य । पान्ति । के । असतः । वचसः । सन्ति । गोपाः

5.12.5

सखायः । ते । विषुणाः । अग्ने । एते । शिवासः । सन्तः । अशिवाः । अभूवन् । अधूर्षत । स्वयम् । एते । वचः-भिः । ऋजु-यते । वृजिनानि । ब्रुवन्तः

5.12.6

यः । ते । अग्ने । नमसा । यज्ञम् । ईटे । ऋतम् । सः । पाति । अरुषस्य । वृष्णः । तस्य । क्षयः । पृथुः । आ । साधुः । एतु । प्र-सर्स्राणस्य । नहुषस्य । शेषः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc