भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 5.11

5.11.1

॥2॥.
-र्व्_4:1।3-
(र्व्_5,11)
अनस्य । गोपाः । अजनिष्ट । जागृविः । अग्निः । सु-दक्षः । सुविताय । नव्यसे । घृत-प्रतीकः । बृहता । दिवि-स्पृशा । द्यु-मत् । वि । भाति । भरतेभ्यः । शुचिः

5.11.2

यज्ञस्य । केतुम् । प्रथमम् । पुरः-हितम् । अग्निम् । नरः । त्रि-सधस्थे । सम् । ईधिरे । इन्द्रेण । देवैः । सरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सु-क्रतुः

5.11.3

असम्-मृष्टः । जायसे । मात्रोः । शुचिः । मन्द्रः । कविः । उत् । अतिष्ठः । विवस्वतः । घृतेन । त्वा । अवर्धयन् । अग्ने । आहुत । धूमः । ते । केतुः । अभवत् । दिवि । शृइतः

5.11.4

अग्निः । नः । यज्ञम् । उप । वेतु । साधु-या । अग्निम् । नरः । वि । भरन्ते । गृहे--गृहे । अग्निः । दूतः । अभवत् । हव्य-वाहनः । अग्निम् । वृणानाः । वृणते । कवि-क्रतुम्

5.11.5

तुभ्य । इदम् । अग्ने । मधुमत्-तमम् । वचः । तुभ्यम् । मनीषा । इयम् । अस्तु । शम् । हृदे । त्वाम् । गिरः । सिन्धुम्-इव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च

5.11.6

त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वने--वने । सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc