भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.58

4.58.1

॥9॥.
-र्व्_3:8।10-
(र्व्_4,58)
समुद्रात् । ऊर्मिः । मधु-मान् । उत् । आरत् । उप । अंशुना । सम् । अमृत-त्वम् । आनट् । घृतस्य । नाम । गुह्यम् । यत् । अस्ति । जिह्वा । देवानाम् । अमृतस्य । नाभिः

4.58.2

वयम् । नाम । प्र । ब्रआम । घृतस्य । अस्मिन् । यज्ञे । धारयाम । नमः-भिः । उप । ब्रह्मा । शृणवत् । शस्यमानम् । चतुः-शृङ्गः । अवमीत् । गौरः । एतत्

4.58.3

चत्वारि । शृङ्गा । त्रयः । अस्य । पादाः । द्वे इति । शीर्षे इति । सप्त । हस्तासः । अस्य । त्रिधा । बद्धः । वृषभः । रोरवीति । महः । देवः । मर्त्यान् । आ । विवेश

4.58.4

त्रिधा । हितम् । पणि-भिः । गुह्यमानम् । गवि । देवासः । घृतम् । अनु । अविन्दन् । इन्द्रः । एकम् । सूर्यः । एकम् । जजान । वेनात् । एकम् । स्वधया । निः । ततक्षुः

4.58.5

एताः । अर्षन्ति । हृद्यात् । समुद्रात् । शत-व्रजाः । रिपुणा । न । अव-चक्षे । घृतस्य । धाराः । अभि । चाकसीमि । हिरण्ययः । वेतसः । मध्ये । आसाम्

4.58.6

॥10॥.
-र्व्_3:8।11-
सम्यक् । स्रवन्ति । सरितः । न । धेनाः । अन्तः । हृदा । मनसा । पूयमानाः । एते । अर्षन्ति । ऊर्मयः । घृतस्य । मृगाः-इव । क्षिपणोः । ईषमाणाः

4.58.7

सिन्धोः-इव । प्र-अध्वने । शूघनासः । वात-प्रमियः । पतयन्ति । यह्वाः । घृतस्य । धाराः । अरुषः । न । वाजी । काष्ठाः । भिन्दन् । ऊर्मिभिः । पिन्वमानः

4.58.8

अभि । प्रवन्त । समनाइव । योषाः । कल्याण्यः । स्मयमानासः । अग्निम् । घृतस्य । धाराः । सम्-इधः । नसन्त । ताः । जुषाणः । हर्यति । जात-वेदाः

4.58.9

कन्याः-इव । वहतुम् । एतवै । ओं इति । अञ्जि । अञ्जानाः । अभि । चाकशीमि । यत्र । सोमः । सूयते । यत्र । यज्ञः । घृतस्य । धाराः । अभि । तत् । पवन्ते

4.58.10

अभि । अर्षत । सु-स्तुतिम् । गव्यम् । आजिम् । अस्मासु । भद्रा । द्रविणानि । धत्त । इमम् । यज्ञम् । नयत । देवता । नः । घृतस्य । धाराः । मधु-मत् । पवन्ते

4.58.11

धामन् । ते । विश्वम् । भुवनम् । अधि । श्रितम् । अन्तरिति । समुद्रे । हृदि । अन्तः । आयुषि । अपाम् । अनीके । सम्-इथे । यः । आभृतः । तम् । अश्याम । मधु-मन्तम् । ते । ऊर्मिम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc