भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.57

4.57.1

॥8॥.
-र्व्_3:8।9-
(र्व्_4,57)
क्षेत्रस्य । पतिना । वयम् । हितेन-इव । जयामसि । गाम् । अस्वम् । पोषयित्नु । आ । सः । नः । मृळाति । ईदृशे

4.57.2

क्षेत्रस्य । पते । मधु-मन्तम् । ऊर्मिम् । धेनुः-इव । पयः । अस्मासु । धुक्ष्व । मधु-श्चुतम् । घृतम्-इव । सु-पाऊतम् । ऋतस्य । नः । पतयः । मृळयन्तु

4.57.3

मधु-मतीः । ओषधीः । द्यावः । आपः । मधु-मत् । नः । भवतु । अन्तरिक्षम् । क्षेत्रस्य । पतिः । मधु-मान् । नः । अस्तु । अरिष्यन्तः । अनु । एनम् । चरेम

4.57.4

शुनम् । वाहाः । शुनम् । नरः । शुनम् । कृषतु । लाङ्गलम् । ।
शुनम् । वरत्राः । बध्यन्ताम् । शुनम् । अष्ट्राम् । उत् । इङ्गय

4.57.5

शुनासीरौ । इमाम् । वाचम् । जुषेथाम् । यत् । दिवि । चक्रथुः । पयः । तेन । इमाम् । उप । सिञ्चतम्

4.57.6

अर्वाची । सु-भगे । भव । सीते । वन्दामहे । त्वा । यथा । नः । सु-भगा । अससि । यथा । नः । सुफला । अससि

4.57.7

इन्द्रः । सीताम् । नि । गृह्णातु । ताम् । पूषा । अनु । यच्छतु । सा । नः । पयस्वती । दुहाम् । उत्तराम्-उत्तराम् । समाम्

4.57.8

शुनम् । नः । फालाः । वि । कृषन्तु । भूमिम् । शुनम् । कीनाशाः । अभि । यन्तु । वाहैः । शुनम् । पर्जन्यः । मधुना । पयः-भिः । शुनासीरा । शुनम् । अस्मासु । धत्तम्

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc