ऋग्वेदसंहिता, पदपाठ · अध्याय 4.56
॥7॥.
-र्व्_3:8।8-
(र्व्_4,56)
मही । द्यावापृथिवी इति । इह । ज्येष्ठेइति । रुचा । भवताम् । शुचयत्-भिः । अर्कैः । यत् । सीम् । वरिष्ठेइति । बृहती इति । वि-मिन्वन् । रुवत् । ह । उक्षा । पप्रथानेभिः । एवैः
देवी इति । देवेभिः । यजते इति । यजत्रैः । अमिनती इति । तस्थतुः । उक्षमाणेइति । ऋतवरी इत्य् ऋत-वरी । अद्रुहा । देवपुत्रेइतिदेव-पुत्रे । यज्ञस्य । नेत्री
इति । शुचयत्-भिः । अर्कैः
सः । इत् । सु-अपाः । भुवनेषु । आस । यः । इमे इति । द्यावापृथिवी इति । जजान । उर्वी इति । गभीरे इति । रजसी इति । सुमेके इतिसु-मेके । अवंशे । धीरः । शच्या । सम् । ऐरत्
नु । रोदसी इति । बृहत्-भिः । नः । वरूथैः । पत्नीवत्-भिः । इषयन्ती इति । स-जोषाः । उरूची इति । विश्वेइति । याजते इति । नि । पातम् । धिया । स्याम । रथ्यः । सदासाः
प्र । वाम् । महि । द्यवी इति । अभि । उप-स्तुतिम् । भरामहे । शुची इति । उप । प्र-शस्तये
पुनाने इति । तन्वा । मिथः । स्वेन । दक्षेण । राजथः । ऊह्याथेइति । सनात् । ऋतम्
मही इति । मित्रस्य । साधथः । तरन्ती इति । पिप्रती इति । ऋतम् । परि । यज्ञम् । नि । सेदथुः
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0