ऋग्वेदसंहिता, पदपाठ · अध्याय 4.55
॥5॥.
-र्व्_3:8।6-
(र्व्_4,55)
कः । वः । त्राता । वसवः । कः । वरूता । द्यावाभूमी इति । अदिते । त्रासीथाम् । नः । सहीयसः । वरुण । मित्र । मर्तात् । कः । वः । अध्वरे । वरिवः । धाति । देवाः
प्र । ये । धामानि । पूर्व्याणि । अर्चान् । वि । यत् । उच्छान् । वि-योतारः । अमूराः । वि-धातारः । वि । ते । दधुः । अजस्राः । ऋत-धीतयः । रुरुचन्त । दस्माः
प्र । पस्त्याम् । अदितिम् । सिन्धुम् । अर्कैः । स्वस्तिम् । ईळे । सख्याय । देवीम् । उभे इति । यथा । नः । अहनी इति । नि-पातः । उषसानक्ता । करताम् । अदब्धेइति
वि । अर्यमा । वरुणः । चेति । पन्थाम् । इषः । पतिः । सुवितम् । गातुम् । अग्निः । इन्द्राविष्णूइति । नृ-वत् । ओं इति । सु । स्तवाना । शर्म । नः । यन्तम् । अम-वत् । वरूथम्
आ । पर्वतस्य । मरुताम् । अवांसि । देवस्य । त्रातुः । अव्रि । भगस्य । पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत्
॥6॥.
-र्व्_3:8।7-
नु । रोदसी
इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अपि । एभिः । इष्टैः । समुद्रम् । न । सम्-चरणे । सनिष्यवः । घर्म-स्वरसः । नद्यः । अप । व्रन्
देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्र-युच्छन् । नहि । मित्रस्य । वरुणस्य । धासिम् । अर्हामसि । प्र-मियम् । सानु । अग्नेः
अग्निः । ईशे । वसव्यस्य । अग्निः । महः । सौभगस्य । तानि । अस्मभ्यम् । रासते
उषः । मघोनि । आ । वह । सूनृते । वार्या । पुरु । अस्मभ्यम् । वाजिनी-वति
तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा । इन्द्रः । नः । राधसा । आ । गमत्
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0