भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेदसंहिता, पदपाठ · अध्याय 4.52

4.52.1

॥2॥.
-र्व्_3:8।3-
(र्व्_4,52)
प्रति । स्या । सूनरी । जनी । वि-उच्छन्ती । परि । स्वसुः । दिवः । अदर्शि । दुहिता

4.52.2

अश्वाइव । चित्रा । अरुषी । माता । गवाम् । ऋत-वरी । सखा । अभूत् । अश्विनोः । उषाः

4.52.3

उत । सखा । असि । अश्विनोः । उत । माता । गवाम् । असि । उत । उषः । वस्वः । ईशिषे

4.52.4

यावयत्-द्वेषसम् । त्वा । चिकित्वित् । सूनृतावरि । प्रति । स्तोमैः । अभुत्स्महि

4.52.5

प्रति । भद्राः । अदृक्षत । गवाम् । सर्गाः । न । रश्मयः । आ । उषाः । अप्राः । उरु । ज्रयः

4.52.6

आपप्रुषी । विभावरि । वि । आवः । ज्योतिषा । तमः । उषः । अनु । स्वधाम् । अव

4.52.7

आ । द्याम् । तनोषि । रश्मि-भिः । आ । अन्तरिक्षम् । उरु । प्रियम् । उषः । शुक्रेण । शोचिषा

मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc