ऋग्वेदसंहिता, पदपाठ · अध्याय 4.51
॥27॥.
-र्व्_3:8।1-
(र्व्_4,51)
इदम् । ओं इति । त्यत् । पुरु-तमम् । पुरस्तात् । ज्योतिः । तमसः । वयुन-वत् । अस्थात् । नूनम् । दिवः । दुहितरः । वि-भातीः । गातुम् । कृणवन् । उषसः । जनाय
अस्थुः । ओं इति । चित्राः । उषसः । पुरस्तात् । मिताः-इव । स्वरवः । अध्वरेषु । वि । ओं इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः
उच्छन्तीः । अद्य । चितयन्त । भोजान् । राधः-देयाय । उषसः । मघोनीः । अचित्रे । अन्तरिति । पणयः । ससन्तु । अबुध्यमानाः । तमसः । वि-मध्ये
कुवित् । सः । देवीः । सनयः । नवः । वा । यामः । बभूयात् । उषसः । वः । अद्य । येन । नव-ग्वे । अङ्गिरे । दश-ग्वे । सप्त-आस्ये । रेवतीः । रेवत् । ऊष
यूयम् । हि । देवीः । ऋतयुक्-भिः । अश्वैः । परि-प्रयाथ । भुवनानि । सद्यः । प्र-बोधयन्तीः । उषसः । ससन्तम् । द्वि-पात् । चतुः-पात् । चरथाय । जीवम्
॥1॥.
-र्व्_3:8।2-
क्व । स्वित् । आसाम् । कतमा । पुराणी । यया । वि-धाना । वि-दधुः । ऋभूणाम् । शुभम् । यत् । शुभ्राः । उषसः । चरन्ति । न । वि । ज्ञायन्ते । स-दृशीः । अजुर्याः
ताः । घ । ताः । भद्राः । उषसः । पुरा । आसुः । अभिष्टि-द्युम्नाः । ऋतजात-सत्याः । यासु । ईजानः । शशमानः । उक्थैः । स्तुवन् । शंसन् । द्रविणम् । सद्यः । आप
ताः । आ । चरन्ति । समना । पुरस्तात् । समानतः । समना । पप्रथानाः । ऋतस्य । देवीः । सदसः । बुधानाः । गवाम् । न । सर्गाः । उषसः । जरन्ते
ताः । इत् । नु । एव । समना । समानीः । अमीत-वर्णाः । उषसः । चरन्ति । गूहन्तीः । अभ्वम् । असितम् । रुशत्-भिः । शुक्राः । तनूभिः । शुचयः । रुचानाः
रयिम् । दिवः । दुहितरः । वि-भातीः । प्रजावन्तम् । यच्छत । अस्मासु । देवीः । स्योनात् । आ । वः । प्रति-बुध्यमानाः । सु-वीर्यस्य । पतयः । स्याम
तत् । वः । दिवः । दुहितरः । वि-भातीः । उप । ब्रुवे । उषसः । यज्ञ-केतुः । वयम् । स्याम । यशसः । जनेषु । तत् । द्यौः । च । धत्ताम् । पृथिवी । च । देवी
मूल पाठ: Ṛgvedasaṃhitā, Padapāṭha · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0